Sukta 2.39
वातेवाजुर्या नद्येव रीतिरक्षी इव चक्षुषा यातमर्वाक् । हस्ताविव तन्वे शम्भविष्ठा पादेव नो नयतं वस्यो अच्छ ॥
वाते॑वाजु॒र्या न॒द्ये॑व री॒तिर॒क्षी इ॑व॒ चक्षु॒षा या॑तम॒र्वाक् । हस्ता॑विव त॒न्वे॒३॒॑ शम्भ॑विष्ठा॒ पादे॑व नो नयतं॒ वस्यो॒ अच्छ॑ ॥
vā́teva ajuryā́ nadyéva rītír akṣī́ iva cákṣuṣā yātam arvā́k | hástāva iva tanvé śáṃbhaviṣṭhā pā́deva no nayataṃ vásyo áccha ||
Come to us swiftly like the wind, like the current of a river; come with sight like two eyes. Like two hands be most auspicious to our body; like two feet lead us toward the better and the more luminous good.
वाता॑ऽइव । अ॒जु॒र्या । न॒द्या॑ऽइव । री॒तिः । अ॒क्षी इ॒वेत्य॒क्षीऽइ॑व । चक्षु॑षा । आ । या॒त॒म् । अ॒र्वाक् । हस्तौ॑ऽइव । त॒न्वे॑ । शम्ऽभ॑विष्ठा । पादा॑ऽइव । नः॒ । न॒य॒त॒म् । वस्यः॑ । अच्छ॑ ॥वाताइव । अजुर्या । नद्याइव । रीतिः । अक्षी इवेत्यक्षीइव । चक्षुषा । आ । यातम् । अर्वाक् । हस्तौइव । तन्वे । शम्भविष्ठा । पादाइव । नः । नयतम् । वस्यः । अच्छ ॥vātāiva | ajuryā | nadyāiva | rītiḥ | akṣīivety akṣī-iva | cakṣuṣā | ā | yātam | arvāk | hastau-iva | tanve | śam-bhaviṣṭhā | pādāiva | naḥ | nayatam | vasyaḥ | accha