Sukta 2.39
नावेव नः पारयतं युगेव नभ्येव न उपधीव प्रधीव । श्वानेव नो अरिषण्या तनूनां खृगलेव विस्रसः पातमस्मान् ॥
ना॒वेव॑ नः पारयतं यु॒गेव॒ नभ्ये॑व न उप॒धीव॑ प्र॒धीव॑ । श्वाने॑व नो॒ अरि॑षण्या त॒नूनां॒ खृग॑लेव वि॒स्रस॑: पातम॒स्मान् ॥
nā́veva naḥ pārayataṃ yugéva nábhyeva na upadhī́va pradhī́va | śvā́neva no áriṣaṇyā tanū́nāṃ khṛ́galeva vi-srásaḥ pātam asmā́n ||
As a boat, carry us across; as a yoke, hold us together; as a nave, keep us centered; as supports, sustain us. Like watchful dogs, guard our bodies; like a sure-footed creature, protect us from slipping and falling.
ना॒वाऽइ॑व । नः॒ । पा॒र॒य॒त॒म् । यु॒गाऽइ॑व । नभ्या॑ऽइव । नः॒ । उ॒प॒धी इ॒वेत्यु॑प॒धीऽइ॑व । प्र॒धी इ॒वेति॑ प्र॒धीऽइ॑व । श्वाना॑ऽइव । नः॒ । अरि॑षण्या । त॒नूना॑म् खृग॑लाऽइव । वि॒ऽस्रसः॑ । पा॒त॒म् । अ॒स्मान् ॥नावाइव । नः । पारयतम् । युगाइव । नभ्याइव । नः । उपधी इवेत्युपधीइव । प्रधी इवेति प्रधीइव । श्वानाइव । नः । अरिषण्या । तनूनाम् खृगलाइव । विस्रसः । पातम् । अस्मान् ॥nāvāiva | naḥ | pārayatam | yugāiva | nabhyāiva | naḥ | upadhī ivety upadhī-iva | pradhī ivety pradhī-iva | śvānāiva | naḥ | ariṣaṇyā | tanūnām khṛgalāiva | vi-srasaḥ | pātam | asmān