Sukta 2.39
शृङ्गेव नः प्रथमा गन्तमर्वाक्छफाविव जर्भुराणा तरोभिः । चक्रवाकेव प्रति वस्तोरुस्रार्वाञ्चा यातं रथ्येव शक्रा ॥
शृङ्गे॑व नः प्रथ॒मा ग॑न्तम॒र्वाक्छ॒फावि॑व॒ जर्भु॑राणा॒ तरो॑भिः । च॒क्र॒वा॒केव॒ प्रति॒ वस्तो॑रुस्रा॒र्वाञ्चा॑ यातं र॒थ्ये॑व शक्रा ॥
śṛ́ṅgeva naḥ prathamā́ gántam arvā́k śaphā́viva járbhurāṇā tárō-bhiḥ | cakravā́keva práti vástor usrā́rvā́ñcā yātaṃ rathyéva śakrā ||
Come to us first, like two horns leading forward; like two hoofs moving swiftly with their leaps. Like the cakravāka-birds returning toward dawn’s dwelling, come hither; like two mighty ones on the chariot-path, O strong pair.
शृण्गा॑ऽइव । नः॒ । प्र॒थ॒मा । ग॒न्त॒म् । अ॒र्वाक् । श॒फौऽइ॑व । जर्भु॑राणा । तरः॑ऽभिः । च॒क्र॒वा॒काऽइ॑व । प्रति॑ । वस्तोः॑ । उ॒स्रा॒ । अ॒र्वाञ्चा॑ । या॒त॒म् । र॒थ्या॑ऽइव । श॒क्रा॒ ॥शृण्गाइव । नः । प्रथमा । गन्तम् । अर्वाक् । शफौइव । जर्भुराणा । तरःभिः । चक्रवाकाइव । प्रति । वस्तोः । उस्रा । अर्वाञ्चा । यातम् । रथ्याइव । शक्रा ॥śṛṇgāiva | naḥ | prathamā | gantam | arvāk | śaphau-iva | jarbhurāṇā | taraḥ-bhiḥ | cakravākāiva | prati | vastoḥ | usrā | arvāñcā | yātam | rathyāiva | śakrā