Sukta 2.38
न यस्येन्द्रो वरुणो न मित्रो व्रतमर्यमा न मिनन्ति रुद्रः । नारातयस्तमिदं स्वस्ति हुवे देवं सवितारं नमोभिः ॥
न यस्येन्द्रो॒ वरु॑णो॒ न मि॒त्रो व्र॒तम॑र्य॒मा न मि॒नन्ति॑ रु॒द्रः । नारा॑तय॒स्तमि॒दं स्व॒स्ति हु॒वे दे॒वं स॑वि॒तारं॒ नमो॑भिः ॥
na yasyéndro varúṇo ná mitró vratám aryamā́ ná minánti rudráḥ | nā́rātayas tám idáṃ svastí huv́e deváṃ savitā́raṃ námo-bhiḥ ||
He whose law of right becoming is not diminished by Indra, nor by Varuṇa, nor by Mitra, nor by Aryaman, nor even by Rudra—nor can the hostile powers assail it: that god Savitṛ I invoke here for our well-being, with acts of reverence.
न । यस्य॑ । इन्द्रः॑ । वरु॑णः । न । मि॒त्रः । व्र॒तम् । अ॒र्य॒मा । न । मि॒नन्ति॑ । रु॒द्रः । न । अरा॑तयः । तम् । इ॒दम् । स्व॒स्ति । हु॒वे । दे॒वम् । स॒वि॒तार॑म् । नमः॑ऽभिः ॥न । यस्य । इन्द्रः । वरुणः । न । मित्रः । व्रतम् । अर्यमा । न । मिनन्ति । रुद्रः । न । अरातयः । तम् । इदम् । स्वस्ति । हुवे । देवम् । सवितारम् । नमःभिः ॥na | yasya | indraḥ | varuṇaḥ | na | mitraḥ | vratam | aryamā | na | minanti | rudraḥ | na | arātayaḥ | tam | idam | svasti | huve | devam | savitāram | namaḥ-bhiḥ