Sukta 2.38
भगं धियं वाजयन्तः पुरंधिं नराशंसो ग्नास्पतिर्नो अव्याः । आये वामस्य संगथे रयीणां प्रिया देवस्य सवितुः स्याम ॥
भगं॒ धियं॑ वा॒जय॑न्त॒: पुरं॑धिं॒ नरा॒शंसो॒ ग्नास्पति॑र्नो अव्याः । आ॒ये वा॒मस्य॑ संग॒थे र॑यी॒णां प्रि॒या दे॒वस्य॑ सवि॒तुः स्या॑म ॥
bhágaṃ dhíyaṃ vājáyantaḥ púraṃdhiṃ narāśáṃso gnā́spátir no avyāḥ | āyé vā́masya saṃgathé rayīṇā́ṃ priyā́ devásya savitúḥ syāma ||
May Narāśaṃsa and the Lord of inspired utterance guard us, as we make our thought a bearer of plenitude—seeking Bhaga and Purandhi; and in the meeting-place of the riches of delight may we become dear to Savitṛ, the god.
भग॑म् । धिय॑म् । वा॒जय॑न्तः । पुर॑म्ऽधिम् । नरा॒शंसः॑ । ग्नाःपतिः॑ । नः॒ । अ॒व्याः॒ । आ॒ऽअ॒ये । वा॒मस्य॑ । स॒म्ऽग॒थे । र॒यी॒णाम् । प्रि॒याः । दे॒वस्य॑ । स॒वि॒तुः । स्या॒म॒ ॥भगम् । धियम् । वाजयन्तः । पुरम्धिम् । नराशंसः । ग्नाःपतिः । नः । अव्याः । आअये । वामस्य । सम्गथे । रयीणाम् । प्रियाः । देवस्य । सवितुः । स्याम ॥bhagam | dhiyam | vājayantaḥ | puram-dhim | narāśaṃsaḥ | gnāḥpatiḥ | naḥ | avyāḥ | āaye | vāmasya | sam-gathe | rayīṇām | priyāḥ | devasya | savituḥ | syāma