Sukta 2.38
त्वया हितमप्यमप्सु भागं धन्वान्वा मृगयसो वि तस्थुः । वनानि विभ्यो नकिरस्य तानि व्रता देवस्य सवितुर्मिनन्ति ॥
त्वया॑ हि॒तमप्य॑म॒प्सु भा॒गं धन्वान्वा मृ॑ग॒यसो॒ वि त॑स्थुः । वना॑नि॒ विभ्यो॒ नकि॑रस्य॒ तानि॑ व्र॒ता दे॒वस्य॑ सवि॒तुर्मि॑नन्ति ॥
tváyā hitám ápyam ap-sú bhāgáṃ dhánvānvā mṛgayáso ví tasthuḥ | vánāni víbhyo nákir asya tā́ni vratā́ devásya savitúr mínanti ||
By you is set the hidden portion in the waters; therefore the seekers range out across the dry land. The forests—none can violate them; the laws of Savitṛ the god do not admit diminution.
त्वया॑ । हि॒तम् । अप्य॑म् । अ॒प्ऽसु । भा॒गम् । धन्व॑ । अनु॑ । आ । मृ॒ग॒यसः॑ । वि । त॒स्थुः॒ । वना॑नि । विऽभ्यः॑ । नकिः॑ । अ॒स्य॒ । तानि॑ । व्र॒ता । दे॒वस्य॑ । स॒वि॒तुः । मि॒न॒न्ति॒ ॥त्वया । हितम् । अप्यम् । अप्सु । भागम् । धन्व । अनु । आ । मृगयसः । वि । तस्थुः । वनानि । विभ्यः । नकिः । अस्य । तानि । व्रता । देवस्य । सवितुः । मिनन्ति ॥tvayā | hitam | apyam | ap-su | bhāgam | dhanva | anu | ā | mṛgayasaḥ | vi | tasthuḥ | vanāni | vi-bhyaḥ | nakiḥ | asya | tāni | vratā | devasya | savituḥ | minanti