Sukta 2.38
समाववर्ति विष्ठितो जिगीषुर्विश्वेषां कामश्चरताममाभूत् । शश्वाँ अपो विकृतं हित्व्यागादनु व्रतं सवितुर्दैव्यस्य ॥
स॒माव॑वर्ति॒ विष्ठि॑तो जिगी॒षुर्विश्वे॑षां॒ काम॒श्चर॑ताम॒माभू॑त् । शश्वाँ॒ अपो॒ विकृ॑तं हि॒त्व्यागा॒दनु॑ व्र॒तं स॑वि॒तुर्दैव्य॑स्य ॥
sam-ā́vavarti víṣṭhito jigīṣúr víśveṣāṃ kā́maś cáratām amā́bhūt | śáśvāṃ ápo ví-kṛtaṃ hitvī́ ā́gād ánu vratáṃ savitúr daívyasya ||
He has turned and returned, standing firm, seeking to conquer; he became the desire within all that moves. Leaving behind the distorted formations, he has come with the eternal waters, following the divine law of Savitṛ.
स॒म्ऽआव॑वर्ति । विऽस्थि॑तः । जि॒गी॒षुः । विश्वे॑षाम् । कामः॑ । चर॑ताम् । अ॒मा । अ॒भू॒त् । शश्वा॑न् । अपः॑ । विऽकृ॑तम् । हि॒त्वी । आ । अ॒गा॒त् । अनु॑ । व्र॒तम् । स॒वि॒तुः । दैव्य॑स्य ॥सम्आववर्ति । विस्थितः । जिगीषुः । विश्वेषाम् । कामः । चरताम् । अमा । अभूत् । शश्वान् । अपः । विकृतम् । हित्वी । आ । अगात् । अनु । व्रतम् । सवितुः । दैव्यस्य ॥sam-āvavarti | vi-sthitaḥ | jigīṣuḥ | viśveṣām | kāmaḥ | caratām | amā | abhūt | śaśvān | apaḥ | vi-kṛtam | hitvī | ā | agāt | anu | vratam | savituḥ | daivyasya