Sukta 2.38
नानौकांसि दुर्यो विश्वमायुर्वि तिष्ठते प्रभवः शोको अग्नेः । ज्येष्ठं माता सूनवे भागमाधादन्वस्य केतमिषितं सवित्रा ॥
नानौकां॑सि॒ दुर्यो॒ विश्व॒मायु॒र्वि ति॑ष्ठते प्रभ॒वः शोको॑ अ॒ग्नेः । ज्येष्ठं॑ मा॒ता सू॒नवे॑ भा॒गमाधा॒दन्व॑स्य॒ केत॑मिषि॒तं स॑वि॒त्रा ॥
nānó-kāṃsi duryó víśvam ā́yur ví tiṣṭhate pra-bhaváḥ śóko agnéḥ | jyéṣṭhaṃ mātā́ sūnáve bhā́gam ā́dhād ánv asya kétam iṣitáṃ savitrā́ ||
In many dwelling-places the whole life is set in its stations; the out-bursting flame of Agni stands manifest. The Mother has placed the eldest portion for the Son; following his sign, impelled by Savitṛ, the being moves in the ordained direction.
नाना॑ । ओकां॑सि । दुर्यः॑ । विश्व॑म् । आयुः॑ । वि । ति॒ष्ठ॒ते॒ । प्र॒ऽभ॒वः । शोकः॑ । अ॒ग्नेः । ज्येष्ठ॑म् । मा॒ता । सू॒नवे॑ । भा॒गम् । आ । अ॒धा॒त् । अनु॑ । अ॒स्य॒ । केत॑म् । इ॒षि॒तम् । स॒वि॒त्रा ॥नाना । ओकांसि । दुर्यः । विश्वम् । आयुः । वि । तिष्ठते । प्रभवः । शोकः । अग्नेः । ज्येष्ठम् । माता । सूनवे । भागम् । आ । अधात् । अनु । अस्य । केतम् । इषितम् । सवित्रा ॥nānā | okāṃsi | duryaḥ | viśvam | āyuḥ | vi | tiṣṭhate | pra-bhavaḥ | śokaḥ | agneḥ | jyeṣṭham | mātā | sūnave | bhāgam | ā | adhāt | anu | asya | ketam | iṣitam | savitrā