Sukta 2.38
पुनः समव्यद्विततं वयन्ती मध्या कर्तोर्न्यधाच्छक्म धीरः । उत्संहायास्थाद्व्यृतूँरदर्धररमतिः सविता देव आगात् ॥
पुन॒: सम॑व्य॒द्वित॑तं॒ वय॑न्ती म॒ध्या कर्तो॒र्न्य॑धा॒च्छक्म॒ धीर॑: । उत्सं॒हाया॑स्था॒द्व्यृ१॒॑तूँर॑दर्धर॒रम॑तिः सवि॒ता दे॒व आगा॑त् ॥
púnar sám avyad ví-tataṃ váyantī madhyā́ kartór ní adhāc chákma dhī́raḥ | út saṃ-hā́ya asthād vy ṛtū́n adardhaḥ arámatīḥ savitā́ devá ā́ agāt ||
Again she weaves the web that is spread out; in the middle of the work the strong seer set the firm support. Rising, he gathered and set apart the seasons in their right measures; Savitṛ the god came with his powers of effective will.
पुन॒रिति॑ । सम् । अ॒व्य॒त् । विऽत॑तम् । वय॑न्ती । म॒ध्या । कर्तोः॑ । नि । अ॒धा॒त् । शक्म॑ । धीरः॑ । उत् । स॒म्ऽहाय॑ । अ॒स्था॒त् । वि । ऋ॒तून् । अ॒द॒र्धः॒ । अ॒रम॑तिः । स॒वि॒ता । दे॒वः । आ । अ॒गा॒त् ॥पुनरिति । सम् । अव्यत् । विततम् । वयन्ती । मध्या । कर्तोः । नि । अधात् । शक्म । धीरः । उत् । सम्हाय । अस्थात् । वि । ऋतून् । अदर्धः । अरमतिः । सविता । देवः । आ । अगात् ॥punariti | sam | avyat | vi-tatam | vayantī | madhyā | kartoḥ | ni | adhāt | śakma | dhīraḥ | ut | sam-hāya | asthāt | vi | ṛtūn | adardhaḥ | aramatiḥ | savitā | devaḥ | ā | agāt