Sukta 2.38
आशुभिश्चिद्यान्वि मुचाति नूनमरीरमदतमानं चिदेतोः । अह्यर्षूणां चिन्न्ययाँ अविष्यामनु व्रतं सवितुर्मोक्यागात् ॥
आ॒शुभि॑श्चि॒द्यान्वि मु॑चाति नू॒नमरी॑रम॒दत॑मानं चि॒देतो॑: । अ॒ह्यर्षू॑णां चि॒न्न्य॑याँ अवि॒ष्यामनु॑ व्र॒तं स॑वि॒तुर्मोक्यागा॑त् ॥
āśúbhiś cid yā́n ví mucāti nūnáṃ arī́ramad átamānaṃ cid étóḥ | ahyarṣū́ṇāṃ cid ní ayā́n aviṣyā́m ánu vratáṃ savitúr mókī ā́ agāt ||
Even the swift courses he now releases and sets free; he has made to move even what was not moving in its going. Even the serpent-powers he has led down and rendered harmless; following the law of Savitṛ, there comes the liberating release.
आशुऽभिः॑ । चि॒त् । यान् । वि । मु॒चा॒ति॒ । नू॒नम् । अरी॑रमत् । अत॑मानम् । चि॒त् । एतोः॑ । अ॒ह्यर्षू॑णाम् । चि॒त् । नि । अ॒या॒न् । अ॒वि॒ष्याम् । अनु॑ । व्र॒तम् । स॒वि॒तुः । मोकी॑ । आ । अ॒गा॒त् ॥आशुभिः । चित् । यान् । वि । मुचाति । नूनम् । अरीरमत् । अतमानम् । चित् । एतोः । अह्यर्षूणाम् । चित् । नि । अयान् । अविष्याम् । अनु । व्रतम् । सवितुः । मोकी । आ । अगात् ॥āśu-bhiḥ | cit | yān | vi | mucāti | nūnam | arīramat | atamānam | cit | etoḥ | ahyarṣūṇām | cit | ni | ayān | aviṣyām | anu | vratam | savituḥ | mokī | ā | agāt