Sukta 2.38
विश्वस्य हि श्रुष्टये देव ऊर्ध्वः प्र बाहवा पृथुपाणिः सिसर्ति । आपश्चिदस्य व्रत आ निमृग्रा अयं चिद्वातो रमते परिज्मन् ॥
विश्व॑स्य॒ हि श्रु॒ष्टये॑ दे॒व ऊ॒र्ध्वः प्र बा॒हवा॑ पृ॒थुपा॑णि॒: सिस॑र्ति । आप॑श्चिदस्य व्र॒त आ निमृ॑ग्रा अ॒यं चि॒द्वातो॑ रमते॒ परि॑ज्मन् ॥
víśvasya hí śruṣṭáye devá ūrdhváḥ prá bā́havā pṛthú-pāṇiḥ sísarti | ā́paś cid asya vratá ā́ ni-mṛ́grā ayáṃ cid vā́to ramate pári-jman ||
For the hearing and response of all, the god rises upward; wide-handed, he stretches forth his arms. Even the waters submit to his law and take their appointed forms; even this wind moves in delight around its course.
विश्व॑स्य । हि । श्रु॒ष्टये॑ । दे॒वः । ऊ॒र्ध्वः । प्र । बा॒हवा॑ । पृ॒थुऽपा॑णिः । सिस॑र्ति । आपः॑ । चि॒त् । अ॒स्य॒ । व्र॒ते । आ । निऽमृ॑ग्राः । अ॒यम् । चि॒त् । वातः॑ । र॒म॒ते॒ । परि॑ऽज्मन् ॥विश्वस्य । हि । श्रुष्टये । देवः । ऊर्ध्वः । प्र । बाहवा । पृथुपाणिः । सिसर्ति । आपः । चित् । अस्य । व्रते । आ । निमृग्राः । अयम् । चित् । वातः । रमते । परिज्मन् ॥viśvasya | hi | śruṣṭaye | devaḥ | ūrdhvaḥ | pra | bāhavā | pṛthu-pāṇiḥ | sisarti | āpaḥ | cit | asya | vrate | ā | ni-mṛgrāḥ | ayam | cit | vātaḥ | ramate | pari-jman