Sukta 2.38
उदु ष्य देवः सविता सवाय शश्वत्तमं तदपा वह्निरस्थात् । नूनं देवेभ्यो वि हि धाति रत्नमथाभजद्वीतिहोत्रं स्वस्तौ ॥
उदु॒ ष्य दे॒वः स॑वि॒ता स॒वाय॑ शश्वत्त॒मं तद॑पा॒ वह्नि॑रस्थात् । नू॒नं दे॒वेभ्यो॒ वि हि धाति॒ रत्न॒मथाभ॑जद्वी॒तिहो॑त्रं स्व॒स्तौ ॥
údu ṣyá deváḥ savitā́ savā́ya śaśvat-tamáṃ tád apā́ vahnír asthāt | nūnáṃ devébhyo ví hí dhāti rátnam áthā́bhajad vīti-hótraṃ svastáu ||
Up rises that god Savitṛ for the impulsion; the ever-lasting working—like a carrier of waters—has taken its stand. Now he distributes the treasure to the gods; then he apportions the well-invited offering in the movement of well-being.
उत् । ऊँ॒ इति॑ । स्यः । दे॒वः । स॒वि॒ता । स॒वाय॑ । श॒श्व॒त्ऽत॒मम् । तत्ऽअ॑पाः । वह्निः॑ । अ॒स्था॒त् । नू॒नम् । दे॒वेभ्यः॑ । वि । हि । धाति॑ । रत्न॑म् । अथ॑ । अ॒भ॒ज॒त् । वी॒तिऽहो॑त्रम् । स्व॒स्तौ ॥उत् । ऊँ इति । स्यः । देवः । सविता । सवाय । शश्वत्तमम् । तत्अपाः । वह्निः । अस्थात् । नूनम् । देवेभ्यः । वि । हि । धाति । रत्नम् । अथ । अभजत् । वीतिहोत्रम् । स्वस्तौ ॥ut | oṃ iti | syaḥ | devaḥ | savitā | savāya | śaśvat-tamam | tat-apāḥ | vahniḥ | asthāt | nūnam | devebhyaḥ | vi | hi | dhāti | ratnam | atha | abhajat | vīti-hotram | svastau