Sukta 2.38
अस्मभ्यं तद्दिवो अद्भ्यः पृथिव्यास्त्वया दत्तं काम्यं राध आ गात् । शं यत्स्तोतृभ्य आपये भवात्युरुशंसाय सवितर्जरित्रे ॥
अ॒स्मभ्यं॒ तद्दि॒वो अ॒द्भ्यः पृ॑थि॒व्यास्त्वया॑ द॒त्तं काम्यं॒ राध॒ आ गा॑त् । शं यत्स्तो॒तृभ्य॑ आ॒पये॒ भवा॑त्युरु॒शंसा॑य सवितर्जरि॒त्रे ॥
asmábhyaṃ tád divó adbhyáḥ pṛthivyā́s tváyā dattáṃ kā́myaṃ rā́dha ā́ gāt | śáṃ yát stotṛ́-bhya ā́paye bhávāty uru-śáṃsāya savitar jaritré ||
To us may that desirable plenitude come—given by you from heaven, from the waters, from the earth; and may it be for peace and increase to the singers, for the wide-praised one, O Savitṛ, for the praising soul.
अ॒स्मभ्य॑म् । तत् । दि॒वः । अ॒त्ऽभ्यः । पृ॒थि॒व्याः । त्वया॑ । द॒त्तम् । काम्य॑म् । राधः॑ । आ । गा॒त् । शम् । यत् । स्तो॒तृऽभ्यः॑ । आ॒पये॑ । भवा॑ति । उ॒रु॒ऽशंसा॑य । स॒वि॒तः॒ । ज॒रि॒त्रे ॥अस्मभ्यम् । तत् । दिवः । अत्भ्यः । पृथिव्याः । त्वया । दत्तम् । काम्यम् । राधः । आ । गात् । शम् । यत् । स्तोतृभ्यः । आपये । भवाति । उरुशंसाय । सवितः । जरित्रे ॥asmabhyam | tat | divaḥ | at-bhyaḥ | pṛthivyāḥ | tvayā | dattam | kāmyam | rādhaḥ | ā | gāt | śam | yat | stotṛ-bhyaḥ | āpaye | bhavāti | uru-śaṃsāya | savitaḥ | jaritre