Sukta 2.36
एष स्य ते तन्वो नृम्णवर्धनः सह ओजः प्रदिवि बाह्वोर्हितः । तुभ्यं सुतो मघवन्तुभ्यमाभृतस्त्वमस्य ब्राह्मणादा तृपत्पिब ॥
ए॒ष स्य ते॑ त॒न्वो॑ नृम्ण॒वर्ध॑न॒: सह॒ ओज॑: प्र॒दिवि॑ बा॒ह्वोर्हि॒तः । तुभ्यं॑ सु॒तो म॑घव॒न्तुभ्य॒माभृ॑त॒स्त्वम॑स्य॒ ब्राह्म॑णा॒दा तृ॒पत्पि॑ब ॥
eṣá syá te tanvò nṛ́mṇa-várdhanaḥ sáha ójaḥ pra-dívi bāhvór hitáḥ | túbhyaṃ sutó maghavan túbhyam ā́bhṛtas tvám asya brā́hmaṇād ā́ tṛ́pat píba ||
This is for thee, O Indra, an increaser of thy embodied might—strength and force laid in thy arms in the highest heaven. For thee it is pressed, O bountiful one; for thee it is brought: drink to fullness from this brahman (the inspired utterance), and be satisfied.
ए॒षः । स्यः । ते॒ । त॒न्वः॑ । नृ॒म्ण॒ऽवर्ध॑नः । सहः॑ । ओजः॑ । प्र॒ऽदिवि॑ । बा॒ह्वोः । हि॒तः । तुभ्य॑म् । सु॒तः । म॒घ॒व॒न् । तुभ्य॑म् । आऽभृ॑तः । त्वम् । अ॒स्य॒ । ब्राह्म॑णात् । आ । तृ॒पत् । पि॒ब॒ ॥एषः । स्यः । ते । तन्वः । नृम्णवर्धनः । सहः । ओजः । प्रदिवि । बाह्वोः । हितः । तुभ्यम् । सुतः । मघवन् । तुभ्यम् । आभृतः । त्वम् । अस्य । ब्राह्मणात् । आ । तृपत् । पिब ॥eṣaḥ | syaḥ | te | tanvaḥ | nṛmṇa-vardhanaḥ | sahaḥ | ojaḥ | pra-divi | bāhvoḥ | hitaḥ | tubhyam | sutaḥ | maghavan | tubhyam | ābhṛtaḥ | tvam | asya | brāhmaṇāt | ā | tṛpat | piba