Sukta 2.36
जुषेथां यज्ञं बोधतं हवस्य मे सत्तो होता निविदः पूर्व्या अनु । अच्छा राजाना नम एत्यावृतं प्रशास्त्रादा पिबतं सोम्यं मधु ॥
जु॒षेथां॑ य॒ज्ञं बोध॑तं॒ हव॑स्य मे स॒त्तो होता॑ नि॒विद॑: पू॒र्व्या अनु॑ । अच्छा॒ राजा॑ना॒ नम॑ एत्या॒वृतं॑ प्रशा॒स्त्रादा पि॑बतं सो॒म्यं मधु॑ ॥
juṣéthāṃ yajñáṃ bódhataṃ hávasya me sattó hótā ní-vidaḥ pū́rvyā́ ánu | ácchā rājānā náma ety ā́vṛtaṃ praśāstrā́d ā́ pibatāṃ sómyaṃ mádhu ||
Take delight in the sacrifice; awaken to my call. Seated, the Hotṛ follows the ancient summons. To you two Kings, the homage comes, having turned toward you; from the Praśāstṛ’s word drink the Soma’s honeyed delight.
जु॒षेथा॑म् । य॒ज्ञम् । बोध॑तम् । हव॑स्य । मे॒ । स॒त्तः । होता॑ । नि॒ऽविदः॑ । पू॒र्व्याः । अनु॑ । अच्छ॑ । राजा॑ना । नमः॑ । ए॒ति॒ । आ॒ऽवृत॑म् । प्र॒ऽशा॒स्त्रात् । आ । पि॒ब॒त॒म् । सो॒म्यम् । मधु॑ ॥जुषेथाम् । यज्ञम् । बोधतम् । हवस्य । मे । सत्तः । होता । निविदः । पूर्व्याः । अनु । अच्छ । राजाना । नमः । एति । आवृतम् । प्रशास्त्रात् । आ । पिबतम् । सोम्यम् । मधु ॥juṣethām | yajñam | bodhatam | havasya | me | sattaḥ | hotā | ni-vidaḥ | pūrvyāḥ | anu | accha | rājānā | namaḥ | eti | āvṛtam | pra-śāstrāt | ā | pibatam | somyam | madhu