Sukta 2.36
आ वक्षि देवाँ इह विप्र यक्षि चोशन्होतर्नि षदा योनिषु त्रिषु । प्रति वीहि प्रस्थितं सोम्यं मधु पिबाग्नीध्रात्तव भागस्य तृप्णुहि ॥
आ व॑क्षि दे॒वाँ इ॒ह वि॑प्र॒ यक्षि॑ चो॒शन्हो॑त॒र्नि ष॑दा॒ योनि॑षु त्रि॒षु । प्रति॑ वीहि॒ प्रस्थि॑तं सो॒म्यं मधु॒ पिबाग्नी॑ध्रा॒त्तव॑ भा॒गस्य॑ तृप्णुहि ॥
ā́ vakṣi devā́n ihá vipra yákṣi cośán hotar ní ṣadā yóniṣu triṣú | práti vīhi prá-sthitaṃ sómyaṃ mádhu píbāgnī́dhrāt táva bhāgásya tṛ́pṇuhi ||
Bring the gods here, O illumined seer; sacrifice, desiring, O Hotṛ, and sit down in the three wombs (the triple seat of manifestation). Receive what is set forth—the Soma’s honeyed delight; drink from the Āgnīdhra’s portion and be satisfied with thy share.
आ । व॒क्षि॒ । दे॒वान् । इ॒ह । वि॒प्र॒ । यक्षि॑ । च॒ । उ॒शन् । हो॒तः॒ । नि । स॒द॒ । योनि॑षु । त्रि॒षु । प्रति॑ । वी॒हि॒ । प्रऽस्थि॑तम् । सो॒म्यम् । मधु॑ । पि॒ब॒ । आग्नी॑ध्रात् । तव॑ । भा॒गस्य॑ । तृ॒प्णु॒हि॒ ॥आ । वक्षि । देवान् । इह । विप्र । यक्षि । च । उशन् । होतः । नि । सद । योनिषु । त्रिषु । प्रति । वीहि । प्रस्थितम् । सोम्यम् । मधु । पिब । आग्नीध्रात् । तव । भागस्य । तृप्णुहि ॥ā | vakṣi | devān | iha | vipra | yakṣi | ca | uśan | hotaḥ | ni | sada | yoniṣu | triṣu | prati | vīhi | pra-sthitam | somyam | madhu | piba | āgnīdhrāt | tava | bhāgasya | tṛpṇuhi