Sukta 2.36
अमेव नः सुहवा आ हि गन्तन नि बर्हिषि सदतना रणिष्टन । अथा मन्दस्व जुजुषाणो अन्धसस्त्वष्टर्देवेभिर्जनिभिः सुमद्गणः ॥
अ॒मेव॑ नः सुहवा॒ आ हि गन्त॑न॒ नि ब॒र्हिषि॑ सदतना॒ रणि॑ष्टन । अथा॑ मन्दस्व जुजुषा॒णो अन्ध॑स॒स्त्वष्ट॑र्दे॒वेभि॒र्जनि॑भिः सु॒मद्ग॑णः ॥
améva naḥ su-havā́ ā́ hí gántana ní barhíṣi sadatanā ráṇiṣṭana | áthā mandasva jujuṣāṇó ándhasaḥ tváṣṭar devébhir jáni-bhiḥ sumád-gaṇaḥ ||
Come to us here, as if at home, O easy-to-call powers; sit down upon the sacred seat and take delight. Then grow glad, accepting the pressed essence; O Tvaṣṭṛ, with the divine begettings, a company of good thought, shape in us the right form.
अ॒माऽइ॑व । नः॒ । सु॒ऽह॒वाः॒ । आ । हि । गन्त॑न । नि । ब॒र्हिषि॑ । स॒द॒त॒न॒ । रणि॑ष्टन । अथ॑ । म॒न्द॒स्व॒ । जु॒जु॒षा॒णः । अन्ध॑सः । त्वष्टः॑ । दे॒वेभिः॑ । जनि॑ऽभिः । सु॒मत्ऽग॑णः ॥अमाइव । नः । सुहवाः । आ । हि । गन्तन । नि । बर्हिषि । सदतन । रणिष्टन । अथ । मन्दस्व । जुजुषाणः । अन्धसः । त्वष्टः । देवेभिः । जनिभिः । सुमत्गणः ॥amāiva | naḥ | su-havāḥ | ā | hi | gantana | ni | barhiṣi | sadatana | raṇiṣṭana | atha | mandasva | jujuṣāṇaḥ | andhasaḥ | tvaṣṭaḥ | devebhiḥ | jani-bhiḥ | sumat-gaṇaḥ