Sukta 2.36
यज्ञैः सम्मिश्लाः पृषतीभिॠष्टिभिर्यामञ्छुभ्रासो अञ्जिषु प्रिया उत । आसद्या बर्हिर्भरतस्य सूनवः पोत्रादा सोमं पिबता दिवो नरः ॥
य॒ज्ञैः सम्मि॑श्ला॒: पृष॑तीभिॠ॒ष्टिभि॒र्याम॑ञ्छु॒भ्रासो॑ अ॒ञ्जिषु॑ प्रि॒या उ॒त । आ॒सद्या॑ ब॒र्हिर्भ॑रतस्य सूनवः पो॒त्रादा सोमं॑ पिबता दिवो नरः ॥
yajñáiḥ sammiślā́ḥ pṛ́ṣatībhiḥ ṛṣṭí-bhir yā́man chubhrā́saḥ añjíṣu priyā́ uta | āsádyā barhír bharatasya sūnavaḥ potrā́d ā́ sómaṃ pibatā divó naraḥ ||
Blended with the sacrifices, bright in their journey, dear in their shining harness, armed with the spears of effective will—come and sit upon the sacred seat, O sons of Bharata. Drink the Soma from the Potṛ’s offering, O heroes of the luminous world.
य॒ज्ञैः । सम्ऽमि॑श्लाः । पृष॑तीभिः । ऋ॒ष्टिऽभिः॑ । याम॑न् । शु॒भ्रासः॑ । अ॒ञ्जिषु॑ । प्रि॒याः । उ॒त । आ॒ऽसद्य॑ । ब॒र्हिः । भ॒र॒त॒स्य॒ । सू॒न॒वः॒ । पो॒त्रात् । आ । सोम॑म् । पि॒ब॒त॒ । दि॒वः॒ । न॒रः॒ ॥यज्ञैः । सम्मिश्लाः । पृषतीभिः । ऋष्टिभिः । यामन् । शुभ्रासः । अञ्जिषु । प्रियाः । उत । आसद्य । बर्हिः । भरतस्य । सूनवः । पोत्रात् । आ । सोमम् । पिबत । दिवः । नरः ॥yajñaiḥ | sam-miślāḥ | pṛṣatībhiḥ | ṛṣṭi-bhiḥ | yāman | śubhrāsaḥ | añjiṣu | priyāḥ | uta | āsadya | barhiḥ | bharatasya | sūnavaḥ | potrāt | ā | somam | pibata | divaḥ | naraḥ