Sukta 2.36
तुभ्यं हिन्वानो वसिष्ट गा अपोऽधुक्षन्त्सीमविभिरद्रिभिर्नरः । पिबेन्द्र स्वाहा प्रहुतं वषट्कृतं होत्रादा सोमं प्रथमो य ईशिषे ॥
तुभ्यं॑ हिन्वा॒नो व॑सिष्ट॒ गा अ॒पोऽधु॑क्षन्त्सी॒मवि॑भि॒रद्रि॑भि॒र्नर॑: । पिबे॑न्द्र॒ स्वाहा॒ प्रहु॑तं॒ वष॑ट्कृतं हो॒त्रादा सोमं॑ प्रथ॒मो य ईशि॑षे ॥
túbhyaṃ hinvānáḥ vasiṣṭa gā́ apo ’dhúkṣant sīm aví-bhir ádri-bhir nárāḥ | píbéndra svā́hā prá-hutaṃ váṣaṭ-kṛtaṃ hotrā́d ā́ sómaṃ prathamó yá ī́śiṣe ||
For thee, O Indra, the inspired movements urge on; the luminous Rays (cows) and the Waters are milked out for thee by the powers of the ascent, by the pressing-stones, by the striving men. Drink, O Indra, the Soma offered with svāhā, poured forth and sealed by vaṣaṭ; from the Hotṛ’s word take the Soma—thou who first hast mastery and initiatory command.
तुभ्य॑म् । हि॒न्वा॒नः । व॒सि॒ष्ट॒ । गाः । अ॒पः । अधु॑क्षन् । सी॒म् । अवि॑ऽभिः । अद्रि॑ऽभिः । नरः॑ । पिब॑ । इ॒न्द्र॒ । स्वाहा॑ । प्रऽहु॑तम् । वष॑ट्ऽकृतम् । हो॒त्रात् । आ । सोम॑म् । प्र॒थ॒मः । यः । ईशि॑षे ॥तुभ्यम् । हिन्वानः । वसिष्ट । गाः । अपः । अधुक्षन् । सीम् । अविभिः । अद्रिभिः । नरः । पिब । इन्द्र । स्वाहा । प्रहुतम् । वषट्कृतम् । होत्रात् । आ । सोमम् । प्रथमः । यः । ईशिषे ॥tubhyam | hinvānaḥ | vasiṣṭa | gāḥ | apaḥ | adhukṣan | sīm | avi-bhiḥ | adri-bhiḥ | naraḥ | piba | indra | svāhā | pra-hutam | vaṣaṭ-kṛtam | hotrāt | ā | somam | prathamaḥ | yaḥ | īśiṣe