Sukta 2.34
यद्युञ्जते मरुतो रुक्मवक्षसोऽश्वान्रथेषु भग आ सुदानवः । धेनुर्न शिश्वे स्वसरेषु पिन्वते जनाय रातहविषे महीमिषम् ॥
यद्यु॒ञ्जते॑ म॒रुतो॑ रु॒क्मव॑क्ष॒सोऽश्वा॒न्रथे॑षु॒ भग॒ आ सु॒दान॑वः । धे॒नुर्न शिश्वे॒ स्वस॑रेषु पिन्वते॒ जना॑य रा॒तह॑विषे म॒हीमिष॑म् ॥
yád yuñjáte marúto rukmá-vakṣaso ’śvā́n rátheṣu bhága ā́ su-dā́navaḥ | dhenúr ná śíśve svásareṣu pinvate jánāya rā́ta-haviṣe mahī́m íṣam ||
When the Maruts with golden breasts yoke their horses on the chariots, then Fortune comes near with her good gifts. Like a cow to her calf she swells in her own streams, giving to the people who offer the oblation a vast impulsion of force.
यत् । यु॒ञ्जते॑ । म॒रुतः॑ । रु॒क्मऽव॑क्षसः । अश्वा॑न् । रथे॑षु । भगे॑ । आ । सु॒ऽदान॑वः । धे॒नुः । न । शिश्वे॑ । स्वस॑रेषु । पि॒न्व॒ते॒ । जना॑य । रा॒तऽह॑विषे । म॒हीम् । इष॑म् ॥यत् । युञ्जते । मरुतः । रुक्मवक्षसः । अश्वान् । रथेषु । भगे । आ । सुदानवः । धेनुः । न । शिश्वे । स्वसरेषु । पिन्वते । जनाय । रातहविषे । महीम् । इषम् ॥yat | yuñjate | marutaḥ | rukma-vakṣasaḥ | aśvān | ratheṣu | bhage | ā | su-dānavaḥ | dhenuḥ | na | śiśve | svasareṣu | pinvate | janāya | rāta-haviṣe | mahīm | iṣam