Sukta 2.34
तं नो दात मरुतो वाजिनं रथ आपानं ब्रह्म चितयद्दिवेदिवे । इषं स्तोतृभ्यो वृजनेषु कारवे सनिं मेधामरिष्टं दुष्टरं सहः ॥
तं नो॑ दात मरुतो वा॒जिनं॒ रथ॑ आपा॒नं ब्रह्म॑ चि॒तय॑द्दि॒वेदि॑वे । इषं॑ स्तो॒तृभ्यो॑ वृ॒जने॑षु का॒रवे॑ स॒निं मे॒धामरि॑ष्टं दु॒ष्टरं॒ सह॑: ॥
táṃ no dāta maruto vā́jinaṃ rátha āpā́naṃ bráhma citáyad divé-dive | íṣaṃ stotṛ́bhyo vṛjáneṣu kāráve saníṃ medhā́m áriṣṭaṃ dúṣṭaraṃ sáhaḥ ||
Give us that, O Maruts: a force-bearing chariot, a sustaining draught, and the inspired word that awakens day by day. Give to the singers in the struggle the impulsion, the winning, the intelligence unhurt, and the strength hard to overcome.
तम् । नः॒ । दा॒त॒ । म॒रु॒तः॒ । वा॒जिन॑म् । रथे॑ । आ॒पा॒नम् । ब्रह्म॑ । चि॒तय॑त् । दि॒वेऽदि॑वे । इष॑म् । स्तो॒तृऽभ्यः॑ । वृ॒जने॑षु । का॒रवे॑ । स॒निम् । मे॒धाम् । अरि॑ष्टम् । दु॒स्तर॑म् । सहः॑ ॥तम् । नः । दात । मरुतः । वाजिनम् । रथे । आपानम् । ब्रह्म । चितयत् । दिवेदिवे । इषम् । स्तोतृभ्यः । वृजनेषु । कारवे । सनिम् । मेधाम् । अरिष्टम् । दुस्तरम् । सहः ॥tam | naḥ | dāta | marutaḥ | vājinam | rathe | āpānam | brahma | citayat | dive--dive | iṣam | stotṛ-bhyaḥ | vṛjaneṣu | kārave | sanim | medhām | ariṣṭam | dustaram | sahaḥ