Sukta 2.34
इन्धन्वभिर्धेनुभी रप्शदूधभिरध्वस्मभिः पथिभिर्भ्राजदृष्टयः । आ हंसासो न स्वसराणि गन्तन मधोर्मदाय मरुतः समन्यवः ॥
इन्ध॑न्वभिर्धे॒नुभी॑ र॒प्शदू॑धभिरध्व॒स्मभि॑: प॒थिभि॑र्भ्राजदृष्टयः । आ हं॒सासो॒ न स्वस॑राणि गन्तन॒ मधो॒र्मदा॑य मरुतः समन्यवः ॥
índhanvabhir dhenúbhī rapśádūdhābhir adhvasmábhiḥ pathíbhiḥ bhrā́jad-ṛṣṭayaḥ | ā́ haṃsā́so ná svásarāṇi gantana mádhor mádāya marutaḥ sa-manyavaḥ ||
With kindling forces, with nourishing streams that have strong udders, on the paths of the journey, with spears that blaze, come—like swans to their waters—O Maruts of one ardor, for the ecstasy of the honeyed sweetness.
इन्ध॑न्वऽभिः । धे॒नुऽभिः॑ । र॒प्शदू॑धऽभिः । अ॒ध्व॒स्मऽभिः॑ । प॒थिऽभिः॑ । भ्रा॒ज॒त्ऽऋ॒ष्ट॒यः॒ । आ । हं॒सासः॑ । न । स्वस॑राणि । ग॒न्त॒न॒ । मधोः॑ । मदा॑य । म॒रु॒तः॒ । स॒ऽम॒न्य॒वः॒ ॥इन्धन्वभिः । धेनुभिः । रप्शदूधभिः । अध्वस्मभिः । पथिभिः । भ्राजत्ऋष्टयः । आ । हंसासः । न । स्वसराणि । गन्तन । मधोः । मदाय । मरुतः । समन्यवः ॥indhanva-bhiḥ | dhenu-bhiḥ | rapśadūdha-bhiḥ | adhvasma-bhiḥ | pathi-bhiḥ | bhrājat-ṛṣṭayaḥ | ā | haṃsāsaḥ | na | svasarāṇi | gantana | madhoḥ | madāya | marutaḥ | sa-manyavaḥ