Sukta 2.34
पृक्षे ता विश्वा भुवना ववक्षिरे मित्राय वा सदमा जीरदानवः । पृषदश्वासो अनवभ्रराधस ऋजिप्यासो न वयुनेषु धूर्षदः ॥
पृ॒क्षे ता विश्वा॒ भुव॑ना ववक्षिरे मि॒त्राय॑ वा॒ सद॒मा जी॒रदा॑नवः । पृष॑दश्वासो अनव॒भ्ररा॑धस ऋजि॒प्यासो॒ न व॒युने॑षु धू॒र्षद॑: ॥
pṛkṣé tā́ viśvā́ bhúvanā vavakṣire mitrā́ya vā sád amā́ jīrá-dānavaḥ | pṛ́ṣad-aśvāso anavabhra-rā́dhasa ṛjipyā́so ná vayúneṣu dhū́ḥ-sadaḥ ||
For the strengthening, they have borne all the worlds, ever moving, for Mitra’s harmony they come to the seat. With dappled steeds, with unclouded riches, straight-driving, they take their stand in the workings of discernment.
पृ॒क्षे । ता । विश्वा॑ । भुव॑ना । व॒व॒क्षि॒रे॒ । मि॒त्राय॑ । वा॒ । सद॑म् । आ । जी॒रऽदा॑नवः । पृष॑त्ऽअश्वासः । अ॒न॒व॒भ्रऽरा॑धसः । ऋ॒जि॒प्यासः॑ । न । व॒युने॑षु । धूःऽसदः॑ ॥पृक्षे । ता । विश्वा । भुवना । ववक्षिरे । मित्राय । वा । सदम् । आ । जीरदानवः । पृषत्अश्वासः । अनवभ्रराधसः । ऋजिप्यासः । न । वयुनेषु । धूःसदः ॥pṛkṣe | tā | viśvā | bhuvanā | vavakṣire | mitrāya | vā | sadam | ā | jīra-dānavaḥ | pṛṣat-aśvāsaḥ | anavabhra-rādhasaḥ | ṛjipyāsaḥ | na | vayuneṣu | dhūḥ-sadaḥ