Sukta 2.34
उक्षन्ते अश्वाँ अत्याँ इवाजिषु नदस्य कर्णैस्तुरयन्त आशुभिः । हिरण्यशिप्रा मरुतो दविध्वतः पृक्षं याथ पृषतीभिः समन्यवः ॥
उ॒क्षन्ते॒ अश्वाँ॒ अत्याँ॑ इवा॒जिषु॑ न॒दस्य॒ कर्णै॑स्तुरयन्त आ॒शुभि॑: । हिर॑ण्यशिप्रा मरुतो॒ दवि॑ध्वतः पृ॒क्षं या॑थ॒ पृष॑तीभिः समन्यवः ॥
ukṣánte aśvā́n atyā́n ivā́jiṣu nadásya kárṇais turayanta āśúbhiḥ | híraṇya-śiprā maruto dáv idhvataḥ pṛkṣáṃ yātha pṛ́ṣatībhiḥ sa-manyavaḥ ||
They spur their horses like racers in the contests; with the ears of the roaring they drive on with swift energies. O Maruts of golden jaws, vibrating with force, you ride the dappled steeds, one in will and ardor.
उ॒क्षन्ते॑ । अश्वा॑न् । अत्या॑न्ऽइव । आ॒जिषु॑ । न॒दस्य॑ । कर्णैः॑ । तु॒र॒य॒न्ते॒ । आ॒शुऽभिः॑ । हिर॑ण्यऽशिप्राः । म॒रु॒तः॒ । दवि॑ध्वतः । पृ॒क्षम् । या॒थ॒ । पृष॑तीभिः । स॒ऽम॒न्य॒वः॒ ॥उक्षन्ते । अश्वान् । अत्यान्इव । आजिषु । नदस्य । कर्णैः । तुरयन्ते । आशुभिः । हिरण्यशिप्राः । मरुतः । दविध्वतः । पृक्षम् । याथ । पृषतीभिः । समन्यवः ॥ukṣante | aśvān | atyān-iva | ājiṣu | nadasya | karṇaiḥ | turayante | āśu-bhiḥ | h iraṇya-śiprāḥ | marutaḥ | davidhvataḥ | pṛkṣam | yātha | pṛṣatībhiḥ | sa-manyavaḥ