Sukta 2.34
द्यावो न स्तृभिश्चितयन्त खादिनो व्यभ्रिया न द्युतयन्त वृष्टयः । रुद्रो यद्वो मरुतो रुक्मवक्षसो वृषाजनि पृश्न्याः शुक्र ऊधनि ॥
द्यावो॒ न स्तृभि॑श्चितयन्त खा॒दिनो॒ व्य१॒॑भ्रिया॒ न द्यु॑तयन्त वृ॒ष्टय॑: । रु॒द्रो यद्वो॑ मरुतो रुक्मवक्षसो॒ वृषाज॑नि॒ पृश्न्या॑: शु॒क्र ऊध॑नि ॥
dyā́vo ná stṛ́bhiś citayanta khādíno vy-abhriyā́ ná dyutayanta vṛṣṭáyaḥ | rudró yád vo maruto rukma-vakṣaso vṛ́ṣā́jani pṛ́śnyāḥ śukrá ū́dhani ||
Like heaven itself with its pillars they build up their force; like scattered clouds the rains flash out. When Rudra, the Bull, begot you, O Maruts with golden breasts, in the bright udder of Pṛśni, he poured into you the luminous sap of strength.
द्यावः॑ । न । स्तृऽभिः॑ । चि॒त॒य॒न्त॒ । खा॒दिनः॑ । वि । अ॒भ्रियाः॑ । न । द्यु॒त॒य॒न्त॒ । वृ॒ष्टयः॑ । रु॒द्रः । यत् । वः॒ । म॒रु॒तः॒ । रु॒क्म॒ऽव॒क्ष॒सः॒ । वृषा॑ । अज॑नि । पृश्न्याः॑ । शु॒क्रे । ऊध॑नि ॥द्यावः । न । स्तृभिः । चितयन्त । खादिनः । वि । अभ्रियाः । न । द्युतयन्त । वृष्टयः । रुद्रः । यत् । वः । मरुतः । रुक्मवक्षसः । वृषा । अजनि । पृश्न्याः । शुक्रे । ऊधनि ॥dyāvaḥ | na | stṛ-bhiḥ | citayanta | khādinaḥ | vi | abhriyāḥ | na | dyutayanta | vṛṣṭayaḥ | rudraḥ | yat | vaḥ | marutaḥ | rukma-vakṣasaḥ | vṛṣā | ajani | pṛśnyāḥ | śukre | ūdhani