Sukta 2.34
धारावरा मरुतो धृष्ण्वोजसो मृगा न भीमास्तविषीभिरर्चिनः । अग्नयो न शुशुचाना ऋजीषिणो भृमिं धमन्तो अप गा अवृण्वत ॥
धा॒रा॒व॒रा म॒रुतो॑ धृ॒ष्ण्वो॑जसो मृ॒गा न भी॒मास्तवि॑षीभिर॒र्चिन॑: । अ॒ग्नयो॒ न शु॑शुचा॒ना ऋ॑जी॒षिणो॒ भृमिं॒ धम॑न्तो॒ अप॒ गा अ॑वृण्वत ॥
dhārāvarā́ marúto ghṛ́ṣṇvójaso mṛgā́ ná bhīmā́s táviṣībhir arcínaḥ | agnáyo ná śuśucānā́ ṛjīṣíṇo bhṛmíṃ dhámanto ápa gā́ avṛṇvata ||
The Maruts, pouring their streaming powers, of vehement strength, like fearsome wild beings, blaze with their might. Like kindled Fires, flaming and straight-driving, they blow away the obstruction and uncover the Rays (cows) from the concealment.
धा॒रा॒व॒राः । म॒रुतः॑ । घृ॒ष्णुऽओ॑जसः । मृ॒गाः । न । भी॒माः । तवि॑षीभिः । अ॒र्चिनः॑ । अ॒ग्नयः॑ । न । शु॒शु॒चा॒नाः । ऋ॒जी॒षिणः॑ । भृमि॑म् । धम॑न्तः । अप॑ । गाः । अ॒वृ॒ण्व॒त॒ ॥धारावराः । मरुतः । घृष्णुओजसः । मृगाः । न । भीमाः । तविषीभिः । अर्चिनः । अग्नयः । न । शुशुचानाः । ऋजीषिणः । भृमिम् । धमन्तः । अप । गाः । अवृण्वत ॥dhārāvarāḥ | marutaḥ | ghṛṣṇu-ojasaḥ | mṛgāḥ | na | bhīmāḥ | taviṣībhiḥ | arcinaḥ | agnayaḥ | na | śuśucānāḥ | ṛjīṣiṇaḥ | bhṛmim | dhamantaḥ | apa | gāḥ | avṛṇvata