Sukta 2.34
ते क्षोणीभिररुणेभिर्नाञ्जिभी रुद्रा ऋतस्य सदनेषु वावृधुः । निमेघमाना अत्येन पाजसा सुश्चन्द्रं वर्णं दधिरे सुपेशसम् ॥
ते क्षो॒णीभि॑ररु॒णेभि॒र्नाञ्जिभी॑ रु॒द्रा ऋ॒तस्य॒ सद॑नेषु वावृधुः । नि॒मेघ॑माना॒ अत्ये॑न॒ पाज॑सा सुश्च॒न्द्रं वर्णं॑ दधिरे सु॒पेश॑सम् ॥
té kṣoṇī́bhir aruṇébhir nā́ñjibhī rudrā́ ṛtásya sádanēṣu vāvṛdhuḥ | niméghamānā́ átyena pā́jasā suścandrám várṇaṃ dadhire supéśasam ||
They, the Rudras (Maruts), with their ruddy earth-spaces and bright ornaments, increase in the seats of the Truth. Thundering down, with the force of the steed-like energy, they put on a shining, well-fashioned form—beauty of ordered power.
ते । क्षो॒णीभिः॑ । अरु॒णेभिः॑ । न । अ॒ञ्जिऽभिः॑ । रु॒द्राः । ऋ॒तस्य॑ । सद॑नेषु । व॒वृ॒धुः॒ । नि॒ऽमेघ॑मानाः । अत्ये॑न । पाज॑सा । सुऽच॒न्द्रम् । वर्ण॑म् । द॒धि॒रे॒ । सु॒ऽपेश॑सम् ॥ते । क्षोणीभिः । अरुणेभिः । न । अञ्जिभिः । रुद्राः । ऋतस्य । सदनेषु । ववृधुः । निमेघमानाः । अत्येन । पाजसा । सुचन्द्रम् । वर्णम् । दधिरे । सुपेशसम् ॥te | kṣoṇībhiḥ | aruṇebhiḥ | na | añji-bhiḥ | rudrāḥ | ṛtasya | sadaneṣu | vavṛdhuḥ | ni--meghamānāḥ | atyena | pājasā | su-candram | varṇam | dadhire | su-peśasam