Sukta 2.34
ते दशग्वाः प्रथमा यज्ञमूहिरे ते नो हिन्वन्तूषसो व्युष्टिषु । उषा न रामीररुणैरपोर्णुते महो ज्योतिषा शुचता गोअर्णसा ॥
ते दश॑ग्वाः प्रथ॒मा य॒ज्ञमू॑हिरे॒ ते नो॑ हिन्वन्तू॒षसो॒ व्यु॑ष्टिषु । उ॒षा न रा॒मीर॑रु॒णैरपो॑र्णुते म॒हो ज्योति॑षा शुच॒ता गोअ॑र्णसा ॥
té daśagvā́ḥ prathamā́ yajñám ūhire té no hinvantūṣáso vyùṣṭiṣu | uṣā́ na rāmī́r aruṇáir ápornute mahó jyótiṣā śucatā́ goárṇasā ||
Those Daśagvas first bore the sacrifice forward; may they urge our dawns in their breakings forth. Like Dawn, the gracious one unveils with her red rays—by the great light, by purity, by the flood of illumining ‘cows’ (rays of knowledge).
ते । दश॑ऽग्वाः । प्र॒थ॒माः । य॒ज्ञम् । ऊ॒हि॒रे॒ । ते । नः॒ । हि॒न्व॒न्तु॒ । उ॒षसः॑ । विऽउ॑ष्टिषु । उ॒षाः । न । रा॒मीः । अ॒रु॒णैः । अप॑ । ऊ॒र्णु॒ते॒ । म॒हः । ज्योति॑षा । शु॒च॒ता । गोऽअ॑र्णसा ॥ते । दशग्वाः । प्रथमाः । यज्ञम् । ऊहिरे । ते । नः । हिन्वन्तु । उषसः । विउष्टिषु । उषाः । न । रामीः । अरुणैः । अप । ऊर्णुते । महः । ज्योतिषा । शुचता । गोअर्णसा ॥te | daśa-gvāḥ | prathamāḥ | yajñam | ūhire | te | naḥ | hinvantu | uṣasaḥ | vi-uṣṭiṣu | uṣāḥ | na | rāmīḥ | aruṇaiḥ | apa | ūrṇute | mahaḥ | jyotiṣā | śucatā | go--arṇasā