Sukta 2.34
तान्वो महो मरुत एवयाव्नो विष्णोरेषस्य प्रभृथे हवामहे । हिरण्यवर्णान्ककुहान्यतस्रुचो ब्रह्मण्यन्तः शंस्यं राध ईमहे ॥
तान्वो॑ म॒हो म॒रुत॑ एव॒याव्नो॒ विष्णो॑रे॒षस्य॑ प्रभृ॒थे ह॑वामहे । हिर॑ण्यवर्णान्ककु॒हान्य॒तस्रु॑चो ब्रह्म॒ण्यन्त॒: शंस्यं॒ राध॑ ईमहे ॥
tān vó maho marúta evayā́vno víṣṇor eṣásya prabhṛthé havāmahe | híraṇyavarṇān kakuhā́ny atasrúco brahmaṇyántaḥ śáṃsyaṃ rā́dha īmahe ||
Those mighty Maruts, ever-young in their forward movement, we call here in the wide outpouring of Vishnu’s impelling force. Golden in hue, high-crested, pouring their streams, they foster the soul’s flame of aspiration; from them we seek the wealth that is worthy to be affirmed—an increase of inner plenitude.
तान् । वः॒ । म॒हः । म॒रुतः॑ । ए॒व॒ऽयाव्नः॑ । विष्णोः॑ । ए॒षस्य॑ । प्र॒ऽभृ॒थे । ह॒वा॒म॒हे॒ । हिर॑ण्यऽवर्णान् । क॒कु॒हान् । य॒तऽस्रु॑चः । ब्र॒ह्म॒ण्यन्तः॑ । शंस्य॑म् । राधः॑ । ई॒म॒हे॒ ॥तान् । वः । महः । मरुतः । एवयाव्नः । विष्णोः । एषस्य । प्रभृथे । हवामहे । हिरण्यवर्णान् । ककुहान् । यतस्रुचः । ब्रह्मण्यन्तः । शंस्यम् । राधः । ईमहे ॥tān | vaḥ | mahaḥ | marutaḥ | eva-yāvnaḥ | viṣṇoḥ | eṣasya | pra-bhṛthe | havāmahe | hiraṇya-varṇān | kakuhān | yata-srucaḥ | brahmaṇyantaḥ | śaṃsyam | rādhaḥ | īmahe