Sukta 2.34
चित्रं तद्वो मरुतो याम चेकिते पृश्न्या यदूधरप्यापयो दुहुः । यद्वा निदे नवमानस्य रुद्रियास्त्रितं जराय जुरतामदाभ्याः ॥
चि॒त्रं तद्वो॑ मरुतो॒ याम॑ चेकिते॒ पृश्न्या॒ यदूध॒रप्या॒पयो॑ दु॒हुः । यद्वा॑ नि॒दे नव॑मानस्य रुद्रियास्त्रि॒तं जरा॑य जुर॒ताम॑दाभ्याः ॥
citráṃ tád vo maruto yā́ma cekite pṛ́śnyā yád ū́dhar ápy ā́payo duhúḥ | yád vā nid é náv amānasya rudriyās tritáṃ járāya juratā́m adā́bhyāḥ ||
A wondrous is your movement, O Maruts, that becomes manifest: when from Pṛśni’s udder the waters are milked forth. Or when, O Rudriyas, for the blame of the ever-renewing, you deliver Trita from the aging that wears down—O you who cannot be overpowered.
चि॒त्रम् । तत् । वः॒ । म॒रु॒तः॒ । याम॑ । चे॒कि॒ते॒ । पृश्न्याः॑ । यत् । ऊधः॑ । अपि॑ । आ॒पयः॑ । दु॒हुः । यत् । वा॒ । नि॒दे । नव॑मानस्य । रु॒द्रि॒याः॒ । त्रि॒तम् । जरा॑य । जु॒र॒ताम् । अ॒दा॒भ्याः॒ ॥चित्रम् । तत् । वः । मरुतः । याम । चेकिते । पृश्न्याः । यत् । ऊधः । अपि । आपयः । दुहुः । यत् । वा । निदे । नवमानस्य । रुद्रियाः । त्रितम् । जराय । जुरताम् । अदाभ्याः ॥citram | tat | vaḥ | marutaḥ | yāma | cekite | pṛśnyāḥ | yat | ūdhaḥ | api | āpayaḥ | duhuḥ | yat | vā | nide | navamānasya | rudriyāḥ | tritam | jarāya | juratām | adābhyāḥ