Sukta 2.33
स्थिरेभिरङ्गैः पुरुरूप उग्रो बभ्रुः शुक्रेभिः पिपिशे हिरण्यैः । ईशानादस्य भुवनस्य भूरेर्न वा उ योषद्रुद्रादसुर्यम् ॥
स्थि॒रेभि॒रङ्गै॑: पुरु॒रूप॑ उ॒ग्रो ब॒भ्रुः शु॒क्रेभि॑: पिपिशे॒ हिर॑ण्यैः । ईशा॑नाद॒स्य भुव॑नस्य॒ भूरे॒र्न वा उ॑ योषद्रु॒द्राद॑सु॒र्य॑म् ॥
sthirébhir áṅgaiḥ pururū́pa ugró babhrúḥ śukrébhiḥ pipiśé híraṇyaiḥ | ī́śānād asyá bhúvanasya bhū́rer ná vā u yoṣad rudrā́d asúryam ||
With firm limbs, many-formed and terrible, the tawny one is adorned with shining gold. As lord of this wide world, none can withhold from Rudra the sovereign might; no darkness can stand before his asuric power.
स्थि॒रेभिः॑ । अङ्गैः॑ । पु॒रु॒ऽरूपः॑ । उ॒ग्रः । ब॒भ्रुः । शु॒क्रेभिः॑ । पि॒पि॒शे॒ । हिर॑ण्यैः । ईशा॑नात् । अ॒स्य । भुव॑नस्य । भूरेः॑ । न । वै । ऊँ॒ इति॑ । यो॒ष॒त् । रु॒द्रात् । अ॒सु॒र्य॑म् ॥स्थिरेभिः । अङ्गैः । पुरुरूपः । उग्रः । बभ्रुः । शुक्रेभिः । पिपिशे । हिरण्यैः । ईशानात् । अस्य । भुवनस्य । भूरेः । न । वै । ऊँ इति । योषत् । रुद्रात् । असुर्यम् ॥sthirebhiḥ | aṅgaiḥ | puru-rūpaḥ | ugraḥ | babhruḥ | śukrebhiḥ | pipiśe | hiraṇyaiḥ | īśānāt | asya | bhuvanasya | bhūreḥ | na | vai | oṃ iti | yoṣat | rudrāt | asuryam