Sukta 2.33
प्र बभ्रवे वृषभाय श्वितीचे महो महीं सुष्टुतिमीरयामि । नमस्या कल्मलीकिनं नमोभिर्गृणीमसि त्वेषं रुद्रस्य नाम ॥
प्र ब॒भ्रवे॑ वृष॒भाय॑ श्विती॒चे म॒हो म॒हीं सु॑ष्टु॒तिमी॑रयामि । न॒म॒स्या क॑ल्मली॒किनं॒ नमो॑भिर्गृणी॒मसि॑ त्वे॒षं रु॒द्रस्य॒ नाम॑ ॥
prá babhráve vṛṣabhā́ya śvitīcé máho mahī́m suṣṭutím īrayāmi | namasyā́ kalmalīkínaṃ námobhir gṛṇī́masi tvéṣaṃ rudrásya nā́ma ||
To the tawny Bull, the brilliant one, I send forth a great and mighty hymn of perfect praise. With salutations we bow to the remover of inner defilement, and with our reverence we proclaim the fierce Name of Rudra.
प्र । ब॒भ्रवे॑ । वृ॒ष॒भाय॑ । श्वि॒ती॒चे । म॒हः । म॒हीम् । सु॒ऽस्तु॒तिम् । ई॒र॒या॒मि॒ । न॒म॒स्य । क॒ल्म॒ली॒किन॑म् । नमः॑ऽभिः । गृ॒णी॒मसि॑ । त्वे॒षम् । रु॒द्रस्य॑ । नाम॑ ॥प्र । बभ्रवे । वृषभाय । श्वितीचे । महः । महीम् । सुस्तुतिम् । ईरयामि । नमस्य । कल्मलीकिनम् । नमःभिः । गृणीमसि । त्वेषम् । रुद्रस्य । नाम ॥pra | babhrave | vṛṣabhāya | śvitīce | mahaḥ | mahīm | su-stutim | īrayāmi | namasya | kalmalīkinam | namaḥ-bhiḥ | gṛṇīmasi | tveṣam | rudrasya | nāma