Sukta 2.33
अर्हन्बिभर्षि सायकानि धन्वार्हन्निष्कं यजतं विश्वरूपम् । अर्हन्निदं दयसे विश्वमभ्वं न वा ओजीयो रुद्र त्वदस्ति ॥
अर्ह॑न्बिभर्षि॒ साय॑कानि॒ धन्वार्ह॑न्नि॒ष्कं य॑ज॒तं वि॒श्वरू॑पम् । अर्ह॑न्नि॒दं द॑यसे॒ विश्व॒मभ्वं॒ न वा ओजी॑यो रुद्र॒ त्वद॑स्ति ॥
árhan bibharṣi sā́yakāni dhánvārhan niṣkáṃ yajatáṃ viśvarū́pam | árhann idáṃ dayase víśvam ábhvaṃ ná vā ójīyo rudra tvád asti ||
Worthy one, you bear the arrows and the bow; worthy one, you wear the sacred, all-formed splendour. Worthy one, you show compassion to this entire vast becoming; there is none stronger than you, O Rudra.
अर्ह॑न् । बि॒भ॒र्षि॒ । साय॑कानि । धन्व॑ । अर्ह॑न् । नि॒ष्कम् । य॒ज॒तम् । वि॒श्वऽरू॑पम् । अर्ह॑न् । इ॒दम् । द॒य॒से॒ । विश्व॑म् । अभ्व॑म् । न । वै । ओजी॑यः । रु॒द्र॒ । त्वत् । अ॒स्ति॒ ॥अर्हन् । बिभर्षि । सायकानि । धन्व । अर्हन् । निष्कम् । यजतम् । विश्वरूपम् । अर्हन् । इदम् । दयसे । विश्वम् । अभ्वम् । न । वै । ओजीयः । रुद्र । त्वत् । अस्ति ॥arhan | bibharṣi | sāyakāni | dhanva | arhan | niṣkam | yajatam | viśva-rūpam | arhan | idam | dayase | viśvam | abhvam | na | vai | ojīyaḥ | rudra | tvat | asti