Sukta 2.33
क्व स्य ते रुद्र मृळयाकुर्हस्तो यो अस्ति भेषजो जलाषः । अपभर्ता रपसो दैव्यस्याभी नु मा वृषभ चक्षमीथाः ॥
क्व१॒॑ स्य ते॑ रुद्र मृळ॒याकु॒र्हस्तो॒ यो अस्ति॑ भेष॒जो जला॑षः । अ॒प॒भ॒र्ता रप॑सो॒ दैव्य॑स्या॒भी नु मा॑ वृषभ चक्षमीथाः ॥
kvà syá te rudra mṛḷayā́kur hásto yó ásti bheṣajó jálāṣaḥ | apabhartā́ rápaso daívyasyā́bhī nú mā vṛṣabha cakṣamīthāḥ ||
Where is that hand of yours, O Rudra, so ready to show mercy—the healing hand that brings refreshing balm? You who remove the divine assault and burning pressure, look upon me now, O Bull-Power, with a saving regard.
क्व॑ । स्यः । ते॒ । रु॒द्र॒ । मृ॒ळ॒याकुः॑ । हस्तः॑ । यः । अस्ति॑ । भे॒ष॒जः । जला॑षः । अ॒प॒ऽभ॒र्ता । रप॑सः । दैव्य॑स्य । अ॒भि । नु । मा॒ । वृ॒ष॒भ॒ । च॒क्ष॒मी॒थाः॒ ॥क्व । स्यः । ते । रुद्र । मृळयाकुः । हस्तः । यः । अस्ति । भेषजः । जलाषः । अपभर्ता । रपसः । दैव्यस्य । अभि । नु । मा । वृषभ । चक्षमीथाः ॥kva | syaḥ | te | rudra | mṛḷayākuḥ | hastaḥ | yaḥ | asti | bheṣajaḥ | jalāṣaḥ | apa-bhartā | rapasaḥ | daivyasya | abhi | nu | mā | vṛṣabha | cakṣamīthāḥ