Sukta 2.33
हवीमभिर्हवते यो हविर्भिरव स्तोमेभी रुद्रं दिषीय । ऋदूदरः सुहवो मा नो अस्यै बभ्रुः सुशिप्रो रीरधन्मनायै ॥
हवी॑मभि॒र्हव॑ते॒ यो ह॒विर्भि॒रव॒ स्तोमे॑भी रु॒द्रं दि॑षीय । ऋ॒दू॒दर॑: सु॒हवो॒ मा नो॑ अ॒स्यै ब॒भ्रुः सु॒शिप्रो॑ रीरधन्म॒नायै॑ ॥
havī́mabhir hávate yó havírbhir áva stómebhī rudráṃ diṣī́ya | ṛdū́daraḥ su-hávo mā́ no asyái babhrúḥ su-śípro rīradhat manā́yai ||
He who calls Rudra with oblations, who would serve him with hymns and offerings—may Rudra, the strong-bellied, the well-invoked, not harm us in this. May the tawny one of fair lips soften towards our mind and intention.
हवी॑मऽभिः । हव॑ते । यः । ह॒विःऽभिः । अव॑ । स्तोमे॑भिः । रु॒द्रम् । दि॒षी॒य॒ । ऋ॒दू॒दरः॑ । सु॒ऽहवः॑ । मा । नः॒ । अ॒स्यै । ब॒भ्रुः । सु॒ऽशिप्रः॑ । री॒र॒ध॒त् । म॒नायै॑ ॥हवीमभिः । हवते । यः । हविःभिः । अव । स्तोमेभिः । रुद्रम् । दिषीय । ऋदूदरः । सुहवः । मा । नः । अस्यै । बभ्रुः । सुशिप्रः । रीरधत् । मनायै ॥havīma-bhiḥ | havate | yaḥ | haviḥ-bhiḥ | ava | stomebhiḥ | rudram | diṣīya | ṛdūdaraḥ | su-havaḥ | mā | naḥ | asyai | babhruḥ | su-śipraḥ | rīradhat | manāyai