Sukta 2.33
श्रेष्ठो जातस्य रुद्र श्रियासि तवस्तमस्तवसां वज्रबाहो । पर्षि णः पारमंहसः स्वस्ति विश्वा अभीती रपसो युयोधि ॥
श्रेष्ठो॑ जा॒तस्य॑ रुद्र श्रि॒यासि॑ त॒वस्त॑मस्त॒वसां॑ वज्रबाहो । पर्षि॑ णः पा॒रमंह॑सः स्व॒स्ति विश्वा॑ अ॒भी॑ती॒ रप॑सो युयोधि ॥
śréṣṭho jā́tasya rudra śriyā́si távas-tamas távasāṃ vajrabāho | párṣiṇaḥ pā́ram áṃhasaḥ svastí víśvā abhī́tī rápaso yuyodhi ||
O Rudra, thou art the most excellent of all that is born, in thy splendor; the mightiest among the mighty, O wielder of the thunder-force. Carry us beyond the far shore of constriction; bring us well-being; repel all assaults of the violent powers.
ष्रेष्ठः॑ । जा॒तस्य॑ । रु॒द्र॒ । श्रि॒या । अ॒सि॒ । त॒वःऽत॑मः । त॒वसा॑म् । व॒ज्र॒बा॒हो॒ इति॑ वज्रऽबाहो । पर्षि॑ । नः॒ । पा॒रम् । अंह॑सः । स्व॒स्ति । विश्वाः॑ । अ॒भिऽइ॑तीः । रप॑सः । यु॒यो॒धि॒ ॥ष्रेष्ठः । जातस्य । रुद्र । श्रिया । असि । तवःतमः । तवसाम् । वज्रबाहो इति वज्रबाहो । पर्षि । नः । पारम् । अंहसः । स्वस्ति । विश्वाः । अभिइतीः । रपसः । युयोधि ॥śreṣṭhaḥ | jātasya | rudra | śriyā | asi | tavaḥ-tamaḥ | tavasām | vajrabāho itivajra-bāho | parṣi | naḥ | pāram | aṃhasaḥ | svasti | viśvāḥ | abhi-itīḥ | rapasaḥ | yuyodhi