Sukta 2.33
त्वादत्तेभी रुद्र शंतमेभिः शतं हिमा अशीय भेषजेभिः । व्यस्मद्द्वेषो वितरं व्यंहो व्यमीवाश्चातयस्वा विषूचीः ॥
त्वाद॑त्तेभी रुद्र॒ शंत॑मेभिः श॒तं हिमा॑ अशीय भेष॒जेभि॑: । व्य१॒॑स्मद्द्वेषो॑ वित॒रं व्यंहो॒ व्यमी॑वाश्चातयस्वा॒ विषू॑चीः ॥
tvā́dattebhī rudra śáṃtamebhiḥ śatáṃ hímā aśīya bheṣajébhiḥ | vy àsmád dveṣó vitaráṃ vy àṃhó vy ámīvāś cātayasvā víṣūcīḥ ||
O Rudra, with thy most peace-giving remedies that are thine own gifts, may I pass a hundred winters. Drive far from us all hatred; drive away distress; drive away the creeping afflictions that strike from every side.
त्वाऽद॑त्तेभिः । रु॒द्र॒ । शम्ऽत॑मेभिः । श॒तम् । हिमाः॑ । अ॒शी॒य॒ । भे॒ष॒जेभिः॑ । वि । अ॒स्मत् । द्वेषः॑ । वि॒ऽत॒रम् । वि । अंहः॑ । वि । अमी॑वाः । चा॒त॒य॒स्व॒ । विषू॑चीः ॥त्वादत्तेभिः । रुद्र । शम्तमेभिः । शतम् । हिमाः । अशीय । भेषजेभिः । वि । अस्मत् । द्वेषः । वितरम् । वि । अंहः । वि । अमीवाः । चातयस्व । विषूचीः ॥tvādattebhiḥ | rudra | śam-tamebhiḥ | śatam | himāḥ | aśīya | bheṣajebhiḥ | vi | asmat | dveṣaḥ | vi-taram | vi | aṃhaḥ | vi | amīvāḥ | cātayasva | viṣūcīḥ