Sukta 2.33
आ ते पितर्मरुतां सुम्नमेतु मा नः सूर्यस्य संदृशो युयोथाः । अभि नो वीरो अर्वति क्षमेत प्र जायेमहि रुद्र प्रजाभिः ॥
आ ते॑ पितर्मरुतां सु॒म्नमे॑तु॒ मा न॒: सूर्य॑स्य सं॒दृशो॑ युयोथाः । अ॒भि नो॑ वी॒रो अर्व॑ति क्षमेत॒ प्र जा॑येमहि रुद्र प्र॒जाभि॑: ॥
ā́ te pitaḥ marútāṃ sumnám etu mā́ naḥ sū́ryasya sam-dṛ́śo yuyothāḥ | abhí no vīró árvati kṣameta prá jāyemahi rudra pra-jā́bhiḥ ||
O Father of the Maruts, let thy grace come to us; do not drive us away from the vision of the Sun. May the heroic force thrive among us; O Rudra, may we be born forward with our progenies—our true becomings.
आ । ते॒ । पि॒तः॒ । म॒रु॒ता॒म् । सु॒म्नम् । ए॒तु॒ । मा । नः॒ । सूर्य॑स्य । स॒म्ऽदृशः॑ । यु॒यो॒थाः॒ । अ॒भि । नः॒ । वी॒रः । अर्व॑ति । क्ष॒मे॒त॒ । प्र । जा॒ये॒म॒हि॒ । रु॒द्र॒ । प्र॒ऽजाभिः॑ ॥आ । ते । पितः । मरुताम् । सुम्नम् । एतु । मा । नः । सूर्यस्य । सम्दृशः । युयोथाः । अभि । नः । वीरः । अर्वति । क्षमेत । प्र । जायेमहि । रुद्र । प्रजाभिः ॥ā | te | pitaḥ | marutām | sumnam | etu | mā | naḥ | sūryasya | sam-dṛśaḥ | yuyothāḥ | abhi | naḥ | vīraḥ | arvati | kṣameta | pra | jāyemahi | rudra | pra-jābhiḥ