Sukta 2.33
परि णो हेती रुद्रस्य वृज्याः परि त्वेषस्य दुर्मतिर्मही गात् । अव स्थिरा मघवद्भ्यस्तनुष्व मीढ्वस्तोकाय तनयाय मृळ ॥
परि॑ णो हे॒ती रु॒द्रस्य॑ वृज्या॒: परि॑ त्वे॒षस्य॑ दुर्म॒तिर्म॒ही गा॑त् । अव॑ स्थि॒रा म॒घव॑द्भ्यस्तनुष्व॒ मीढ्व॑स्तो॒काय॒ तन॑याय मृळ ॥
pári no hetī́ rudrásya vṛjyā́ḥ pári tvéṣasya durmatír mahī́ gāt | áva sthirā́ maghávadbhyas tanuṣva mī́ḍhvas tokā́ya tánayāya mṛḷa ||
Turn away from us the missile of Rudra; let the vast ill-will of the fierce one pass away. Extend to the givers a firm protection, O bountiful Rudra; be gracious to our child and our offspring, to the continuity of the inner work.
परि॑ । नः॒ । हे॒तिः । रु॒द्रस्य॑ । वृ॒ज्याः॒ । परि॑ । त्वे॒षस्य॑ । दुःऽम॒तिः । म॒ही । गा॒त् । अव॑ । स्थि॒रा । म॒घव॑त्ऽभ्यः । त॒नु॒ष्व॒ । मीढ्वः॑ । तो॒काय॑ । तन॑याय । मृ॒ळ॒ ॥परि । नः । हेतिः । रुद्रस्य । वृज्याः । परि । त्वेषस्य । दुःमतिः । मही । गात् । अव । स्थिरा । मघवत्भ्यः । तनुष्व । मीढ्वः । तोकाय । तनयाय । मृळ ॥pari | naḥ | hetiḥ | rudrasya | vṛjyāḥ | pari | tveṣasya | duḥ-matiḥ | mahī | gāt | ava | sthirā | maghavat-bhyaḥ | tanuṣva | mīḍhavaḥ | tokāya | tanayāya | mṛḷa