Sukta 2.33
एवा बभ्रो वृषभ चेकितान यथा देव न हृणीषे न हंसि । हवनश्रुन्नो रुद्रेह बोधि बृहद्वदेम विदथे सुवीराः ॥
ए॒वा ब॑भ्रो वृषभ चेकितान॒ यथा॑ देव॒ न हृ॑णी॒षे न हंसि॑ । ह॒व॒न॒श्रुन्नो॑ रुद्रे॒ह बो॑धि बृ॒हद्व॑देम वि॒दथे॑ सु॒वीरा॑: ॥
evā́ babhro vṛṣabha cekitāna yáthā deva ná hṛṇīṣé ná haṃsi | havana-śrún no rudréha bodhi bṛhád vadema vidáthé su-vīrāḥ ||
So, O tawny Bull who knows, be such to us, O god, that you neither be angered nor strike. Hearer of our call, O Rudra, awaken here to us; may we speak the Vast in the assembly, rich in heroic energies.
ए॒व । ब॒भ्रो॒ इति॑ । वृ॒ष॒भ॒ । चे॒कि॒ता॒न॒ । यथा॑ । दे॒व॒ । न । हृ॒णी॒षे । न । हंसि॑ । ह॒व॒न॒ऽश्रुत् । नः॒ । रु॒द्र॒ । इ॒ह । बो॒धि॒ । बृ॒हत् । व॒दे॒म॒ । वि॒दथे॑ । सु॒ऽवीराः॑ ॥एव । बभ्रो इति । वृषभ । चेकितान । यथा । देव । न । हृणीषे । न । हंसि । हवनश्रुत् । नः । रुद्र । इह । बोधि । बृहत् । वदेम । विदथे । सुवीराः ॥eva | babhro iti | vṛṣabha | cekitāna | yathā | deva | na | hṛṇīṣe | na | haṃsi | havana-śrut | naḥ | rudra | iha | bodhi | bṛhat | vadema | vidathe | su-vīrāḥ