Sukta 2.33
या वो भेषजा मरुतः शुचीनि या शंतमा वृषणो या मयोभु । यानि मनुरवृणीता पिता नस्ता शं च योश्च रुद्रस्य वश्मि ॥
या वो॑ भेष॒जा म॑रुत॒: शुची॑नि॒ या शंत॑मा वृषणो॒ या म॑यो॒भु । यानि॒ मनु॒रवृ॑णीता पि॒ता न॒स्ता शं च॒ योश्च॑ रु॒द्रस्य॑ वश्मि ॥
yā́ vo bheṣajā́ marutaḥ śúcīni yā́ śáṃtamā vṛṣaṇo yā́ mayobhú | yā́ni mánur ávṛṇīta pitā́ naḥ tā́ śáṃ ca yóś ca rudrásya vaśmi ||
The healings that are yours, O Maruts—pure, most peace-giving, joy-bringing—those which Manu, our father, chose: those boons of peace and well-being I seek from Rudra.
या । वः॒ । भे॒ष॒जा । म॒रु॒तः॒ । शुची॑नि । या । शम्ऽत॑मा । वृ॒ष॒णः॒ । या । म॒यः॒ऽभु । यानि॑ । मनुः॑ । अवृ॑णीत । पि॒ता । नः॒ । ता । शम् । च॒ । योः । च॒ । रु॒द्रस्य॑ । व॒श्मि॒ ॥या । वः । भेषजा । मरुतः । शुचीनि । या । शम्तमा । वृषणः । या । मयःभु । यानि । मनुः । अवृणीत । पिता । नः । ता । शम् । च । योः । च । रुद्रस्य । वश्मि ॥yā | vaḥ | bheṣajā | marutaḥ | śucīni | yā | śam-tamā | vṛṣaṇaḥ | yā | mayaḥ-bhu | yāni | manuḥ | avṛṇīta | pitā | naḥ | tā | śam | ca | yoḥ | ca | rudrasya | vaśmi