Sukta 2.33
कुमारश्चित्पितरं वन्दमानं प्रति नानाम रुद्रोपयन्तम् । भूरेर्दातारं सत्पतिं गृणीषे स्तुतस्त्वं भेषजा रास्यस्मे ॥
कु॒मा॒रश्चि॑त्पि॒तरं॒ वन्द॑मानं॒ प्रति॑ नानाम रुद्रोप॒यन्त॑म् । भूरे॑र्दा॒तारं॒ सत्प॑तिं गृणीषे स्तु॒तस्त्वं भे॑ष॒जा रा॑स्य॒स्मे ॥
kumārás cit pitáraṃ vándamānaṃ práti nanāma rudrópa-yántam | bhū́rer dātā́raṃ sát-patiṃ gṛṇīṣe stutás tváṃ bheṣajā́ rāsy asmé ||
Even a child bows to his father when he approaches; so I bow to Rudra as he comes near. I proclaim you as the giver of vastness, the true lord of the being; when praised, you will grant us the healing powers.
कु॒मा॒रः । चि॒त् । पि॒तर॒म् । वन्द॑मानम् । प्रति॑ । न॒ना॒म॒ । रु॒द्र॒ । उ॒प॒ऽयन्त॑म् । भूरेः॑ । दा॒तार॑म् । सत्ऽप॑तिम् । गृ॒णी॒षे॒ । स्तु॒तः । त्वम् । भे॒ष॒जा । रा॒सि॒ । अ॒स्मे इति॑ ॥कुमारः । चित् । पितरम् । वन्दमानम् । प्रति । ननाम । रुद्र । उपयन्तम् । भूरेः । दातारम् । सत्पतिम् । गृणीषे । स्तुतः । त्वम् । भेषजा । रासि । अस्मे इति ॥kumāraḥ | cit | pitaram | vandamānam | prati | nanāma | rudra | upa-yantam | bhūreḥ | dātāram | sat-patim | gṛṇīṣe | stutaḥ | tvam | bheṣajā | rāsi | asme iti