Sukta 2.33
स्तुहि श्रुतं गर्तसदं युवानं मृगं न भीममुपहत्नुमुग्रम् । मृळा जरित्रे रुद्र स्तवानोऽन्यं ते अस्मन्नि वपन्तु सेनाः ॥
स्तु॒हि श्रु॒तं ग॑र्त॒सदं॒ युवा॑नं मृ॒गं न भी॒ममु॑पह॒त्नुमु॒ग्रम् । मृ॒ळा ज॑रि॒त्रे रु॑द्र॒ स्तवा॑नो॒ऽन्यं ते॑ अ॒स्मन्नि व॑पन्तु॒ सेना॑: ॥
stuhí śrutáṃ garta-sádaṃ yúvānaṃ mṛgáṃ ná bhīmám upa-hatnúm ugrám | mṛḷā́ jaritré rudra stavā́nó ’nyáṃ te asmán ní vapantu sénāḥ ||
Praise the renowned one who sits in the deep, the youthful, the terrible like a wild beast, the intense who strikes down. O Rudra, when praised, be gracious to the singer; let your onsets and hostilities fall away elsewhere, not upon us.
स्तु॒हि । श्रु॒तम् । ग॒र्त॒ऽसद॑म् । युवा॑नम् । मृ॒गम् । न । भी॒मम् । उ॒प॒ऽह॒त्नुम् । उ॒ग्रम् । मृ॒ळ । ज॒रि॒त्रे । रु॒द्र॒ । स्तवा॑नः । अ॒न्यम् । ते॒ । अ॒स्मत् । नि । व॒प॒न्तु॒ । सेनाः॑ ॥स्तुहि । श्रुतम् । गर्तसदम् । युवानम् । मृगम् । न । भीमम् । उपहत्नुम् । उग्रम् । मृळ । जरित्रे । रुद्र । स्तवानः । अन्यम् । ते । अस्मत् । नि । वपन्तु । सेनाः ॥stuhi | śrutam | garta-sadam | yuvānam | mṛgam | na | bhīmam | upa-hatnum | ugram | mṛḷa | jaritre | rudra | stavānaḥ | anyam | te | asmat | ni | vapantu | senāḥ