Sukta 2.32
यास्ते राके सुमतयः सुपेशसो याभिर्ददासि दाशुषे वसूनि । ताभिर्नो अद्य सुमना उपागहि सहस्रपोषं सुभगे रराणा ॥
यास्ते॑ राके सुम॒तय॑: सु॒पेश॑सो॒ याभि॒र्ददा॑सि दा॒शुषे॒ वसू॑नि । ताभि॑र्नो अ॒द्य सु॒मना॑ उ॒पाग॑हि सहस्रपो॒षं सु॑भगे॒ ररा॑णा ॥
yā́s te rāke su-matáyaḥ su-péśaso yā́bhir dádāsi dāśúṣe vásūni | tā́bhir no adyá su-mánā upā́gahi sahasra-poṣáṃ su-bhage rárāṇā ||
O Rākā, with those bright and well-shaped thoughts of yours by which you give riches to the giver, come to us today in a happy mind—rejoicing—bringing a thousandfold increase of plenitude.
याः । ते॒ । रा॒के॒ । सु॒ऽम॒तयः॑ । सु॒ऽपेश॑सः । याभिः॑ । ददा॑सि । दा॒शुषे॑ । वसू॑नि । ताभिः॑ । नः॒ । अ॒द्य । सु॒ऽमनाः॑ । उ॒प॒ऽआग॑हि । स॒ह॒स्र॒ऽपो॒षम् । सु॒ऽभ॒गे॒ । ररा॑णा ॥याः । ते । राके । सुमतयः । सुपेशसः । याभिः । ददासि । दाशुषे । वसूनि । ताभिः । नः । अद्य । सुमनाः । उपआगहि । सहस्रपोषम् । सुभगे । रराणा ॥yāḥ | te | rāke | su-matayaḥ | su-peśasaḥ | yābhiḥ | dadāsi | dāśuṣe | vasūni | tābhiḥ | naḥ | adya | su-manāḥ | upa-āgahi | sahasra-poṣam | su-bhage | rarāṇā