Sukta 2.32
राकामहं सुहवां सुष्टुती हुवे शृणोतु नः सुभगा बोधतु त्मना । सीव्यत्वपः सूच्याच्छिद्यमानया ददातु वीरं शतदायमुक्थ्यम् ॥
रा॒काम॒हं सु॒हवां॑ सुष्टु॒ती हु॑वे शृ॒णोतु॑ नः सु॒भगा॒ बोध॑तु॒ त्मना॑ । सीव्य॒त्वप॑: सू॒च्याच्छि॑द्यमानया॒ ददा॑तु वी॒रं श॒तदा॑यमु॒क्थ्य॑म् ॥
rākām aháṃ su-hávāṃ suṣṭutī huve śṛṇótu naḥ su-bhágā bódhatu tmanā | sī́vyatv ápaḥ sū́cyā́c-chídyamānayā dádātu vīráṃ śatá-dāyam ukthyàm ||
I call Rākā with a beautiful invocation and a right praise. May the gracious Power hear us; may she awaken in her own self-awareness. May she stitch the streams together with an unbreaking needle, and grant us the heroic force—rich in a hundred gifts—fit for the uttered hymn.
रा॒काम् । अ॒हम् । सु॒ऽहवा॑म् । सु॒ऽस्तु॒ती । हु॒वे॒ । शृ॒णोतु॑ । नः॒ । सु॒ऽभगा॑ । बोध॑तु । त्मना॑ । सीव्य॑तु । अपः॑ । सू॒च्या । अच्छि॑द्यमानया । ददा॑तु । वी॒रम् । श॒तऽदा॑यम् । उ॒क्थ्य॑म् ॥राकाम् । अहम् । सुहवाम् । सुस्तुती । हुवे । शृणोतु । नः । सुभगा । बोधतु । त्मना । सीव्यतु । अपः । सूच्या । अच्छिद्यमानया । ददातु । वीरम् । शतदायम् । उक्थ्यम् ॥rākām | aham | su-havām | su-stutī | huve | śṛṇotu | naḥ | su-bhagā | bodhatu | tmanā | sīvyatu | apaḥ | sūcyā | acchidyamānayā | dadātu | vīram | śata-dāyam | ukthyam