Sukta 2.32
सिनीवालि पृथुष्टुके या देवानामसि स्वसा । जुषस्व हव्यमाहुतं प्रजां देवि दिदिड्ढि नः ॥
सिनी॑वालि॒ पृथु॑ष्टुके॒ या दे॒वाना॒मसि॒ स्वसा॑ । जु॒षस्व॑ ह॒व्यमाहु॑तं प्र॒जां दे॑वि दिदिड्ढि नः ॥
sinīvāli pṛ́thu-stuke yā́ devā́nām ási svásā | júṣasva havýam ā́hutam prajā́ṃ devi didiḍḍhi naḥ ||
O Sinīvālī of wide praise, sister of the gods, accept the offering that is cast into the fire; O Goddess, set in us the power of progeny—create and establish it for us.
सिनी॑वालि । पृथु॑ऽस्तुके । या । दे॒वाना॑म् । असि॑ । स्वसा॑ । जु॒षस्व॑ । ह॒व्यम् । आऽहु॑तम् । प्र॒ऽजाम् । दे॒वि॒ । दि॒दि॒ड्ढि॒ । नः॒ ॥सिनीवालि । पृथुस्तुके । या । देवानाम् । असि । स्वसा । जुषस्व । हव्यम् । आहुतम् । प्रजाम् । देवि । दिदिड्ढि । नः ॥sinīvāli | pṛthu-stuke | yā | devānām | asi | svasā | juṣasva | havyam | āhutam | pra-jām | devi | didiḍḍhi | naḥ