Sukta 2.32
अहेळता मनसा श्रुष्टिमा वह दुहानां धेनुं पिप्युषीमसश्चतम् । पद्याभिराशुं वचसा च वाजिनं त्वां हिनोमि पुरुहूत विश्वहा ॥
अहे॑ळता॒ मन॑सा श्रु॒ष्टिमा व॑ह॒ दुहा॑नां धे॒नुं पि॒प्युषी॑मस॒श्चत॑म् । पद्या॑भिरा॒शुं वच॑सा च वा॒जिनं॒ त्वां हि॑नोमि पुरुहूत वि॒श्वहा॑ ॥
áheḷatā mánasā śruṣṭím ā́ vaha dúhānāṃ dhénuṃ pipyúṣīm asaścatám | pádyābhir āśúṃ vácasā ca vājínaṃ tvā́ṃ hinomi puru-hūta viśváhā ||
With a mind that bears no ill-will, bring here the ready obedience—like a milking cow, swelling with her flow, that does not fail. With steps swift and with speech that drives, I urge you, O much-invoked, at all times, to become the victorious force within us.
अहे॑ळता । मन॑सा । श्रु॒ष्टिम् । आ । व॒ह॒ । दुहा॑नाम् । धे॒नुम् । पि॒प्युषी॑म् । अ॒स॒श्चत॑म् । पद्या॑भिः । आ॒शुम् । वच॑सा । च॒ । वा॒जिन॑म् । त्वाम् । हि॒नो॒मि॒ । पु॒रु॒ऽहू॒त॒ । वि॒श्वहा॑ ॥अहेळता । मनसा । श्रुष्टिम् । आ । वह । दुहानाम् । धेनुम् । पिप्युषीम् । असश्चतम् । पद्याभिः । आशुम् । वचसा । च । वाजिनम् । त्वाम् । हिनोमि । पुरुहूत । विश्वहा ॥aheḷatā | manasā | śruṣṭim | ā | vaha | duhānām | dhenum | pipyuṣīm | asaścatam | padyābhiḥ | āśum | vacasā | ca | vājinam | tvām | hinomi | puru-hūta | viśvahā