Sukta 2.32
मा नो गुह्या रिप आयोरहन्दभन्मा न आभ्यो रीरधो दुच्छुनाभ्यः । मा नो वि यौः सख्या विद्धि तस्य नः सुम्नायता मनसा तत्त्वेमहे ॥
मा नो॒ गुह्या॒ रिप॑ आ॒योरह॑न्दभ॒न्मा न॑ आ॒भ्यो री॑रधो दु॒च्छुना॑भ्यः । मा नो॒ वि यौ॑: स॒ख्या वि॒द्धि तस्य॑ नः सुम्नाय॒ता मन॑सा॒ तत्त्वे॑महे ॥
mā́ no guhyā́ rípa ā́yor áhan dábhān mā́ na ā́bhyo rī́radho ducchúnābhyaḥ | mā́ no ví yáuḥ sakhyā́ víddhi tásya naḥ sumnāyató mánasā tát tvā īmahe ||
Let not hidden hostile powers strike down our forward life; let not harms from near or far afflict us. Let not our friendship with you be broken; knowing this, with a mind that seeks grace, we pray to you for that truth of your protection.
मा । नः॒ । गुह्याः॑ । रिपः॑ । आ॒योः । अह॑न् । द॒भ॒न् । मा । नः॒ । आ॒भ्यः । री॒र॒धः॒ । दु॒च्छुना॑भ्यः । मा । नः॒ । वि । यौः॑ । स॒ख्या । वि॒द्धि । तस्य॑ । नः॒ । सु॒म्न॒ऽय॒ता । मन॑सा । तत् । त्वा॒ । ई॒म॒हे॒ ॥मा । नः । गुह्याः । रिपः । आयोः । अहन् । दभन् । मा । नः । आभ्यः । रीरधः । दुच्छुनाभ्यः । मा । नः । वि । यौः । सख्या । विद्धि । तस्य । नः । सुम्नयता । मनसा । तत् । त्वा । ईमहे ॥mā | naḥ | guhyāḥ | ripaḥ | āyoḥ | ahan | dabhan | mā | naḥ | ābhyaḥ | rīradhaḥ | ducchunābhyaḥ | mā | naḥ | vi | yauḥ | sakhyā | viddhi | tasya | naḥ | sumna-yatā | manasā | tat | tvā | īmahe