Sukta 2.32
अस्य मे द्यावापृथिवी ऋतायतो भूतमवित्री वचसः सिषासतः । ययोरायुः प्रतरं ते इदं पुर उपस्तुते वसूयुर्वां महो दधे ॥
अ॒स्य मे॑ द्यावापृथिवी ऋताय॒तो भू॒तम॑वि॒त्री वच॑स॒: सिषा॑सतः । ययो॒रायु॑: प्रत॒रं ते इ॒दं पु॒र उप॑स्तुते वसू॒युर्वां॑ म॒हो द॑धे ॥
asyá mé dyāvā-pṛthivī ṛtāyató bhūtám avitrī́ vácasaḥ sisāsatáḥ | yayór ā́yuḥ prá-taraṃ té idáṃ púra úpastute vasūyúrvāṃ mahó dadhé ||
For this my utterance, may Heaven and Earth—moving in the way of ṛta—become protectors, desiring to strengthen the word. Of whom the life is the more forward, before them I place this act of praise; seeking the plenitudes, I found in you a great wideness.
अ॒स्य । मे॒ । द्या॒वा॒पृ॒थि॒वी॒ इति॑ । ऋ॒त॒ऽय॒तः । भू॒तम् । अ॒वि॒त्री इति॑ । वच॑सः । सिसा॑सतः । ययोः॑ । आयुः॑ । प्र॒ऽत॒रम् । ते॒ इति॑ । इ॒दम् । पु॒रः । उप॑स्तुते॒ इत्युप॑ऽस्तुते । व॒सु॒ऽयुः । वा॒ । म॒हः । द॒धे॒ ॥अस्य । मे । द्यावापृथिवी इति । ऋतयतः । भूतम् । अवित्री इति । वचसः । सिसासतः । ययोः । आयुः । प्रतरम् । ते इति । इदम् । पुरः । उपस्तुते इत्युपस्तुते । वसुयुः । वा । महः । दधे ॥asya | me | dyāvāpṛthivī iti | ṛta-yataḥ | bhūtam | avitrī iti | vacasaḥ | sisāsataḥ | yayoḥ | āyuḥ | pra-taram | teiti | idam | puraḥ | upastuteity upa-stute | vasu-yuḥ | vā | mahaḥ | dadhe