Sukta 2.30
यो नः सनुत्य उत वा जिघत्नुरभिख्याय तं तिगितेन विध्य । बृहस्पत आयुधैर्जेषि शत्रून्द्रुहे रीषन्तं परि धेहि राजन् ॥
यो न॒: सनु॑त्य उ॒त वा॑ जिघ॒त्नुर॑भि॒ख्याय॒ तं ति॑गि॒तेन॑ विध्य । बृह॑स्पत॒ आयु॑धैर्जेषि॒ शत्रू॑न्द्रु॒हे रीष॑न्तं॒ परि॑ धेहि राजन् ॥
yó naḥ sánutya utá vā jighatnúr abhikhyā́ya táṃ tigiténa vidhya | bṛ́haspata ā́yudhair jéṣi śátrūn druhé ríṣantaṃ pári dhehi rājan ||
Whoever, stealing upon us, would strike—having marked him, pierce him with the keen point. O Bṛhaspati, conquer the foes with your weapons; O King, set a boundary all around the deceiver who harms.
यः । नः॒ । सनु॑त्य । उ॒त । वा॒ । जि॒घ॒त्नुः । अ॒भि॒ऽख्याय॑ । तम् । ति॒गि॒तेन॑ । वि॒ध्य॒ । बृह॑स्पते । आयु॑धैः । जे॒षि॒ । शत्रू॑न् । दु॒हे । रिष॑न्तम् । परि॑ । धे॒हि॒ । रा॒ज॒न् ॥यः । नः । सनुत्य । उत । वा । जिघत्नुः । अभिख्याय । तम् । तिगितेन । विध्य । बृहस्पते । आयुधैः । जेषि । शत्रून् । दुहे । रिषन्तम् । परि । धेहि । राजन् ॥yaḥ | naḥ | sanutya | uta | vā | jighatnuḥ | abhi-khyāya | tam | tigitena | vidhya | bṛhaspate | āyudhaiḥ | jeṣi | śatrūn | duhe | riṣantam | pari | dhehi | rājan